००४

सर्वाष् टीकाः ...{Loading}...

०१ कृणोमि ते प्राणापानौ

विश्वास-प्रस्तुतिः ...{Loading}...

कृणोमि ते प्राणापानौ
जरां मृत्युं कृणुतां दीर्घम् आयुः स्वस्ति ।
वैवस्वतेन प्रहितान् यमदूतांश्
चरत आराद् अप सेधामि सर्वान् ॥

०२ आराद् अरातिं निरृतिम्

विश्वास-प्रस्तुतिः ...{Loading}...

आराद् अरातिं निरृतिं
परो ग्राहिं क्रव्यादः पिशचान् ।
रक्षो यत् सर्वं दुर्भूतं
तत् तम इवाप हन्मसि ॥

०३ अग्नेष् टे प्राणम्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नेष् टे प्राणम् अमृताद्
आयुष्मतो मनवे जातवेदसः । +++(corr. vanve)+++
यथा न रिष्या अमृतः सजूर् असस्
तत् ते कृणोमि तद् उ ते सम् ऋध्यताम् ॥

०४ शिवे ते स्ताम्

विश्वास-प्रस्तुतिः ...{Loading}...

शिवे ते स्तां द्यावापृथिवी
असन्तापे अधिश्रियौ ।
शं ते सूर्य आ तपति +++(Bhatt. sūryā)+++
शं वातो वातु ते हृदे ।
शिवा अभि क्षरन्तु त्वा-
-आपो दिव्याः पयस्वतीः
शिवास् ते सन्त्व् ओषधीः ॥

०५ उत् त्वाहार्षम् अधरस्याद्

विश्वास-प्रस्तुतिः ...{Loading}...

उत् त्वाहार्षम् अधरस्याद्
उत्तरां पृथिवीम् अभि ।
तत्र त्वादित्यौ रक्षतां
सूर्याश् चन्द्रमसा उभा ॥

०६ यत् ते वासः

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते वासः परिधानं
यां नीविं कृणुषे त्वम् ।
शिवं ते तन्वे तत् कृण्मः
संस्पर्शे ऽध्रूक्ष्णम् अस्तु ते ॥ +++(Bhatt. dhrūkṣṇam)+++

०७ यत् क्षुरेण मर्चयता

विश्वास-प्रस्तुतिः ...{Loading}...

यत् क्षुरेण मर्चयता सुतेजसा
वप्ता वपसि केशश्मस्रु ।
शुम्भं मुखं मैनम् आयुः प्र मोषीः ॥

०८ शिवौ ते स्ताम्

विश्वास-प्रस्तुतिः ...{Loading}...

शिवौ ते स्तां व्रीहियवाव्
अबलासाव् अदोमधौ ।
एतौ यक्ष्मं वि बाधेते
एतौ मुञ्चतो अंहसः ॥

०९ यद् अश्नासि यत्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अश्नासि यत् पिबसि
धान्यं कृष्याः पयः ।
आद्यं यद् अनाद्यं
सर्वं ते अन्नम् अविषं कृणोमि ॥

१० अह्ने च त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

अह्ने च त्वा रात्रये च-
-उभाभ्यां परि दध्मसि ।
अरायेभ्यो जिघत्सुभ्य
इमं नः परि रक्षत ॥