००३

सर्वाष् टीकाः ...{Loading}...

०१ आ रभस्वेमाम् अमृतस्य

विश्वास-प्रस्तुतिः ...{Loading}...

आ रभस्वेमाम् अमृतस्य श्नुष्टिम्
अच्छिद्यमाना जरदष्टिर् अस्तु ते ।
असुं त आयुः पुनर् आ भरामि
रजस् तमो मोप गा मा प्र मेष्ठाः ॥

०२ जीवतां ज्योतिर् अभ्य्

विश्वास-प्रस्तुतिः ...{Loading}...

जीवतां ज्योतिर् अभ्य् एहि लोकम्
आ त्वा हरामि शतशारदाय ।
द्राघीय आयुः प्रतरं ते कृणोम्य्
अव मुञ्चन्तु मृत्युपाशा अशस्तीः ॥ +++(Bhatt. mṛtyapāśā)+++

०३ वातात् ते प्राणम्

विश्वास-प्रस्तुतिः ...{Loading}...

वातात् ते प्राणम् अविदं
सूर्याच् चक्षुर् अहं परि ।
यत् ते मनस् त्वयि तद् धारयामि
सं वित्स्वाङ्गैर् वद जिह्वयालपन् ॥

०४ प्राणेन त्वां द्विपदाम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्राणेन त्वां द्विपदां चतुष्पदाम्
अग्निम् इव जातम् अभि सं धमामि ।
नमस् ते मृत्यो चक्षुषे
नमः प्राणाय ते ऽकरम् ॥ +++(Bhatt. tekaram)+++

०५ अयं जीवतु मा

विश्वास-प्रस्तुतिः ...{Loading}...

अयं जीवतु मा मृत-
-इमं सम् ईरयामसि ।
कृणोम्य् अस्मै भेषजं
मृत्यो मा पुरुषं वधीः ॥

०६ जीवलां नघारिषां जीवन्तीम्

विश्वास-प्रस्तुतिः ...{Loading}...

जीवलां नघारिषां
जीवन्तीम् ओषधीम् अहम् ।
त्रायमाणां सहमानां
सहस्वतीम् अरुन्धतीम्
इह हुवे ऽस्मा अरिष्टतातये ॥ +++(Bhatt. huvesmā)+++

०७ अधि ब्रूहि मा

विश्वास-प्रस्तुतिः ...{Loading}...

अधि ब्रूहि मा रभथाः सृजेमं
तवैव सन्त् सर्वहाया इहास्तु ।
भवाशर्वौ मृडतं शर्म यच्छतम्
अपसिध्य दुरितं धत्तम् आयुः ॥

०८ देवानां हेतिः परि

विश्वास-प्रस्तुतिः ...{Loading}...

देवानां हेतिः परि त्वा वृणक्तु
पारयामि रजस उत् त्वा मृत्योर् अपीपरम् । +++(Bhatt. u(t) tvā)+++
आराद् अग्निं क्रव्यादं निरूहन् +++(Bhatt. niruhaṃ)+++
जिवातवे ते परिधिं दधामि ॥

०९ अस्मै मृत्यो अधि

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मै मृत्यो अधि ब्रूहि-
-इमं दयस्वोद् इतो ऽयम् एतु । +++(Bhatt. itoyam)+++
अरिष्टः सर्वाङ्गः सुश्रुज् जरसा
शतहायनात्मना भुजम् अश्नवत् ॥ +++(corr. śatahāyana ātmanā?)+++

१० यत् ते नियानम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते नियानं रजसं
मृत्यो अनवधरिष्यम् ।
पथ इमं तस्माद् रक्षन्तो
ब्रह्मास्मै वर्म कृण्मसि ॥