००१

सर्वाष् टीकाः ...{Loading}...

०१ अन्तकाय मृत्यवे नम

विश्वास-प्रस्तुतिः ...{Loading}...

अन्तकाय मृत्यवे नम इह-
-अयम् अस्तु पुरुषः सहासुना ।
सूर्यस्य भागे अमृतस्य लोके
प्राणा अपाना इह ते रमन्ताम् ॥

०२ उद् एनं भगो

विश्वास-प्रस्तुतिः ...{Loading}...

उद् एनं भगो अग्रभीद्
उद् एनं सोमो अंशुमान् ।
उद् एनं मरुतो देवा
उद् इन्द्राग्नी स्वस्तये ॥

०३ इह ते ऽसुर्

विश्वास-प्रस्तुतिः ...{Loading}...

इह ते ऽसुर् इह प्राण (Bhatt. tesur)
इहायुर् इह ते मनः ।
उत् त्वा निरृत्याः पाशेभ्यो
दैव्या वाचा भरामसि ॥

०४ उत् क्रामातो माव

विश्वास-प्रस्तुतिः ...{Loading}...

उत् क्रामातो माव पत्था
मृत्योः पड्वीशम् अवमुञ्चमानः ।
मा च्छित्था अस्माल् लोकाद्
अग्नेः सूर्यस्य संदृशः ॥

०५ तुभ्यं वातः पवताम्

विश्वास-प्रस्तुतिः ...{Loading}...

तुभ्यं वातः पवतां मातरिश्वा
तुभ्यं वर्षन्त्व् अमृतान्य् आपः ।
सूर्यस् ते तन्वे शं तपात्
त्वां मृत्युर् दयतां मा प्र मेष्ठाः ॥

०६ उद्यानं ते पुरुष

विश्वास-प्रस्तुतिः ...{Loading}...

उद्यानं ते पुरुष नावयानं
जीवातं ते दक्षतातिं कृणोतु ।
आ हि रोहेमम् अमृतं सुखं रथम्
अथ जिर्विर् विदथम् आ वदासि ॥

०७ मा ते मनस्

विश्वास-प्रस्तुतिः ...{Loading}...

मा ते मनस् तत्र गान् मा तिरो भून्
मा जीवेभ्यः प्र मदो मानु गाः पितॄन् ।
विश्वे देवा अभि रक्षन्तु त्वेह ॥

०८ मा गतानाम् आ

विश्वास-प्रस्तुतिः ...{Loading}...

मा गतानाम् आ दीधीथा
ये नयन्ति परावतम् ।
उद् आ रोह तमसो ज्योतिर् एह्य् (Bhatt. ehm)
आ ते हस्तं रभामहे

०९ श्यामश् च त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

श्यामश् च त्वा शबलश् च प्रेषितौ
यमस्य यौ पथिरक्षी श्वानौ ।
अर्वाङ् एहि मा वि दीध्यो
माति तिष्ठः पराङ्मनाः ॥

१० मैतं पन्थाम् अनु

विश्वास-प्रस्तुतिः ...{Loading}...

मैतं पन्थाम् अनु गा भीम एष
येन पूर्वं नयथ तं ब्रवीमि ।
तम एतत् पुरुष मा प्र पत्था
भयं परस्ताद् अभयं ते अर्वाक् ॥