सर्वाष् टीकाः ...{Loading}...
०१ वृषाक्षस्यासुरस्य मेनिर् असि
विश्वास-प्रस्तुतिः ...{Loading}...
वृषाक्षस्यासुरस्य मेनिर् असि
तां त्वया तथा वेद कर्णस्य
कौविदस्येवमाशा ।
तां माभ्य् अव गा द्वादशाह्नानि वि रक्षे ॥
मूलम् ...{Loading}...
मूलम् (GR)
वृषाक्षस्यासुरस्य मेनिर् असि
तां त्वया तथा वेद कर्णस्य
कौविदस्येवमाशा ।
तां माभ्य् अव गा द्वादशाह्नानि वि रक्षे ॥
सर्वाष् टीकाः ...{Loading}...
०२ असिर् मे तिग्मस्यायस
विश्वास-प्रस्तुतिः ...{Loading}...
असिर् मे तिग्मस्यायस
इन्द्राग्निभ्यां सुसंशितः ।
तेन सेधाम् इद् आदुनिं
कृषिं मे माव गाद् इति
सस्यं मे मा वधीद् इति ॥
मूलम् ...{Loading}...
मूलम् (GR)
असिर् मे तिग्मस्यायस
इन्द्राग्निभ्यां सुसंशितः ।
तेन सेधाम् इद् आदुनिं
कृषिं मे माव गाद् इति
सस्यं मे मा वधीद् इति ॥
सर्वाष् टीकाः ...{Loading}...
०३ मरुतः परि वृङ्धि
विश्वास-प्रस्तुतिः ...{Loading}...
मरुतः परि वृङ्धि नो
दिवः क्षुद्रेभिर् अश्मभिः । (Bhatt. aśmibhiḥ)
उदुम्बरस्य शाखया विचक्षुषा-
-अशनिं यावयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
मरुतः परि वृङ्धि नो
दिवः क्षुद्रेभिर् अश्मभिः । (Bhatt. aśmibhiḥ)
उदुम्बरस्य शाखया विचक्षुषा-
-अशनिं यावयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०४ मरुतो मृडयात नो
विश्वास-प्रस्तुतिः ...{Loading}...
मरुतो मृडयात नो
दिवः शुक्रेभिर् अश्मभिः । (Bhatt. aśmibhiḥ)
उदुम्बरस्य शाखया विचक्षुषा-
-अशणिं यावयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
मरुतो मृडयात नो
दिवः शुक्रेभिर् अश्मभिः । (Bhatt. aśmibhiḥ)
उदुम्बरस्य शाखया विचक्षुषा-
-अशणिं यावयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०५ वर्ताद् वर्तम् आ
विश्वास-प्रस्तुतिः ...{Loading}...
वर्ताद् वर्तम् आ क्राम
पर्वताद् अधि पर्वतम् ।
गिरौ प्रतिशृता सती
वृक्षान् भङ्धि मा यवम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वर्ताद् वर्तम् आ क्राम
पर्वताद् अधि पर्वतम् ।
गिरौ प्रतिशृता सती
वृक्षान् भङ्धि मा यवम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ अदाम्ना त्वा सन्ध्यामि
विश्वास-प्रस्तुतिः ...{Loading}...
अदाम्ना त्वा सन्ध्यामि
यावण्या परिभूर्ण्या ।
सानौ प्रतिशृता सती
तृणं भङ्धि मा यवम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अदाम्ना त्वा सन्ध्यामि
यावण्या परिभूर्ण्या ।
सानौ प्रतिशृता सती
तृणं भङ्धि मा यवम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ उशती नामासि सलिन्दा
विश्वास-प्रस्तुतिः ...{Loading}...
उशती नामासि सलिन्दा नाम ।
अन्याम् आसां गच्छ यं द्विष्मस् तं गच्छ ॥
मूलम् ...{Loading}...
मूलम् (GR)
उशती नामासि सलिन्दा नाम ।
अन्याम् आसां गच्छ यं द्विष्मस् तं गच्छ ॥
सर्वाष् टीकाः ...{Loading}...
०८ पराचीम् अनु संवतम्
विश्वास-प्रस्तुतिः ...{Loading}...
पराचीम् अनु संवतं
पराचीम् अनु संविदं
पराच्य् अनु नि द्रव ।
इतस् त्वा नाशयामसि
ब्रह्मणा वीर्यावता ॥
मूलम् ...{Loading}...
मूलम् (GR)
पराचीम् अनु संवतं
पराचीम् अनु संविदं
पराच्य् अनु नि द्रव ।
इतस् त्वा नाशयामसि
ब्रह्मणा वीर्यावता ॥
सर्वाष् टीकाः ...{Loading}...
०९ वार् भवोदकं भव
विश्वास-प्रस्तुतिः ...{Loading}...
वार् भवोदकं भव-
-उदकस्योदकं भव ।
क्षुद्रात् क्षोदीयसी भूत्वा-
-अथेह्य् अधमं तमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
वार् भवोदकं भव-
-उदकस्योदकं भव ।
क्षुद्रात् क्षोदीयसी भूत्वा-
-अथेह्य् अधमं तमः ॥
सर्वाष् टीकाः ...{Loading}...
१० स्योना भव शिवा
विश्वास-प्रस्तुतिः ...{Loading}...
स्योना भव शिवा भव
शिवाच् छिवतरा भव ।
फेनान् मृदीयसी भूत्वा-
-इदं शस्यम् उपा चर ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्योना भव शिवा भव
शिवाच् छिवतरा भव ।
फेनान् मृदीयसी भूत्वा-
-इदं शस्यम् उपा चर ॥
सर्वाष् टीकाः ...{Loading}...
११ नमस् ते अस्तु
विश्वास-प्रस्तुतिः ...{Loading}...
नमस् ते अस्तु विद्युते स्तनयित्नवे ।
नमस् ते अग्ने दूरे हेते कृण्मो
मा नो हिंसीर् द्विपदो मा चतुष्पदः ॥
मूलम् ...{Loading}...
मूलम् (GR)
नमस् ते अस्तु विद्युते स्तनयित्नवे ।
नमस् ते अग्ने दूरे हेते कृण्मो
मा नो हिंसीर् द्विपदो मा चतुष्पदः ॥
सर्वाष् टीकाः ...{Loading}...
१२ प्रति त्वा सहसासहः
विश्वास-प्रस्तुतिः ...{Loading}...
प्रति त्वा सहसासहः
सहसा प्रति रुध्मसि ।
ऐन्द्रम् इदं सहो महद्
भूम्यास् तवं दिवि श्रितम् ।
अफालकृष्टम् आ क्रम
मा न इन्द्र यवं वधीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रति त्वा सहसासहः
सहसा प्रति रुध्मसि ।
ऐन्द्रम् इदं सहो महद्
भूम्यास् तवं दिवि श्रितम् ।
अफालकृष्टम् आ क्रम
मा न इन्द्र यवं वधीः ॥
सर्वाष् टीकाः ...{Loading}...
१३ याः समुद्राद् उच्चरन्त्य्
विश्वास-प्रस्तुतिः ...{Loading}...
याः समुद्राद् उच्चरन्त्य्
उत्सेभ्यो या नदीभ्यः ।
अत्यन्तः सर्पो वैद्युतो
ऽशनिं यावयाद् इतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
याः समुद्राद् उच्चरन्त्य्
उत्सेभ्यो या नदीभ्यः ।
अत्यन्तः सर्पो वैद्युतो
ऽशनिं यावयाद् इतः ॥