०२२

सर्वाष् टीकाः ...{Loading}...

०१ इन्द्राग्नी हुवे प्रथमौ

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्राग्नी हुवे प्रथमौ
ह्वयामि मरुतः शिवान् । (Bhatt. śivāṃ)
ह्वयामि विश्वान् देवान् (Bhatt. viśvāṃ)
इमं होमम् अवन्तु मे ॥

०२ त्वं प्रथमो अमृतत्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं प्रथमो अमृतत्वम्
अग्ने देवो देवत्वं प्रथमो जिगेथ ।
तव दिवि हृदयं सं बभूव
स नः शिवा आपो जातवेदो नि यच्छ ॥

०३ अग्नाव् अग्निश्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नाव् अग्निश् (चरति प्रविष्ट
ऋषीणां पुत्रो अधिराज एषः ।
तस्मै जुहोमि हविषा घृतेन
मा देवानां यूयवद् भागधेयम्) ॥

०४ ये देवा दिवि

विश्वास-प्रस्तुतिः ...{Loading}...

ये देवा दिवि ष्ठ ये पृथिव्यां
जातवेदो य उराव् अन्तरिक्षे ।
ये गिरिषु पर्वतेष्व् अप्स्व् अन्तस्
ते देवा अशनिं यावयाथ ॥

०५ मित्रं दिग्भिः कृणुष्व

विश्वास-प्रस्तुतिः ...{Loading}...

मित्रं दिग्भिः कृणुष्व जातवेद
आशाभिर् मित्रम् अधिपा विपश्चित् ।
मा नो हिंसीर् दिव्येनाग्निना
सस्यां येन यन्ति मरुत स्पर्धमानाः ॥

०६ विद्योतमान स्तनयन् वृषेवैषि

विश्वास-प्रस्तुतिः ...{Loading}...

विद्योतमान स्तनयन्
वृषेवैषि कनिक्रदत् ।
भीमः पर्जन्य ते रथः
स उ नः शर्म यच्छतु ॥

०७ ये विद्युतम् अशनिम्

विश्वास-प्रस्तुतिः ...{Loading}...

ये विद्युतम् अशनिम् आ तन्वन्ति
मरुतः सलिलाद् अधि ।
कृष्यै नो विश्ववाराया
अवधन्वा नि तन्वताम् ॥

०८ यो विद्युतम् अशनिम्

विश्वास-प्रस्तुतिः ...{Loading}...

यो विद्युतम् अशनिम् आतंत्य्
अन्तरिक्षाद् उत वाताद् दिवश् च ।
तेभ्यो मरुद्भ्यो नमो ऽस्त्व् ओजसे ॥

०९ ता यन्तु स्वरङ्कृताः

विश्वास-प्रस्तुतिः ...{Loading}...

ता यन्तु स्वरंकृताः
स्योनाः शिवतमाः पथा ।
मा न इन्द्र यवं वधीर्
मित्रमेनेन कृण्महे ॥

१० दर्भो अग्र ओषधीनाम्

विश्वास-प्रस्तुतिः ...{Loading}...

दर्भो अग्र ओषधीनां
शतकाण्डो अजायत ।
स देवैः प्रहितो ऽयम् आगन्
स्वस्तये वृषा मरुद्भिः सह संविदानः ॥