०२०

सर्वाष् टीकाः ...{Loading}...

०१ त्वज् जाता रुद्र

विश्वास-प्रस्तुतिः ...{Loading}...

त्वज् जाता रुद्र शन्तमा त्वं हि नो
बभुर्या इराय भेषजेभिः । +++(Bhatt. om. irāya)+++
वि यक्ष्मान् यावयास्मद् व्य् अंहो +++(Bhatt. vyakṣmāṃ)+++
व्य् अमीवाश् चातयास्मद् विषूचीः ॥

०२ त्वं देवानाम् असि

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं देवानाम् असि रुद्र श्रेष्ठस्
तवस् तवसाम् उग्रबाहो ।
हृणीयसा मनसा मोदमान
आ बभूविथ रुद्रस्य सूनोः ॥

०३ त्वं हि नो

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं हि नो वीराँ ईरय भेषजेभिर्
उरुं नो भवन्त मघवो मरुत्वन् । +++(Bhatt. marutvaṃ ।)+++
करा नः पारम् अंहसः स्वस्ति
विश्वा अभीतीर् अप सेधास्मत् ॥

०४ त्वं हि नो

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं हि नो वृषभ चक्षिमेष्ठा
अस्मै रुद्रायोग्राय मीढुषे ।
क्षयद्वीराय प्र भरामहे मतिं
यथा नः शम् असो द्विपदे शं चतुष्पदे ॥

०५ क्व तेषु रुद्र

विश्वास-प्रस्तुतिः ...{Loading}...

क्व तेषु रुद्र हस्तो
मृडयाको जलाषः ।
अपभर्ता रपसो दैव्यस्य ॥

०६ प्र यक्ष्मः प्र

विश्वास-प्रस्तुतिः ...{Loading}...

प्र यक्ष्मः प्र निरृतिर् एत्व् अस्मत्
सेनेव सृष्टा प्रचताम् अमीवा ।
आराध्वं सना वृजना जहीत ॥ +++(Bhatt. ārāddhat, jahītii; see Lelli)+++

०७ अर्हन् धनुर् हितम्

विश्वास-प्रस्तुतिः ...{Loading}...

अर्हन् धनुर् हितं बिभर्ष्य्
अर्हन् निष्कं रजन्तं विश्वरूपम् ।
अर्हन्न् इदं दयसे विश्वम् एजन्
न ते दूरं न परिष्ठास्ति ते भव
सद्यः सर्वान् परि पश्यसि भूमिम् ॥

०८ नमस् ते अस्तु

विश्वास-प्रस्तुतिः ...{Loading}...

नमस् ते अस्तु विद्युते
नमस् ते स्तनयित्नवे ।
नमस् ते अस्त्व् अश्मने
येन प्रदिशम् अस्यसि ॥

०९ मा देवानाम् उग्र

विश्वास-प्रस्तुतिः ...{Loading}...

मा देवानाम् उग्र राजन्न्
अस्माकं पुरुषा रिषन् ।
रक्षांस्य् अस्मद् यक्ष्मांश् च
नाशयामसि ब्रह्मणा ॥

१० ब्रह्मणेतो नाशयामो यत्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्मणेतो नाशयामो
यत् किं चाङ्गेष्व् आमयत् ।
शल्यान् यक्ष्मस्याथो रोपीस् +++(Bhatt. śalyāṃ)+++
ता इतो वि नयामसि ॥