सर्वाष् टीकाः ...{Loading}...
०१ अप्सरसो वि वो
विश्वास-प्रस्तुतिः ...{Loading}...
अप्सरसो वि वो यकृद्
वि वो भिनद्मि मेहनम् ।
वि चण्डालं व्य् अर्जुनं
वि ववृत्रं भिनद्मि वः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अप्सरसो वि वो यकृद्
वि वो भिनद्मि मेहनम् ।
वि चण्डालं व्य् अर्जुनं
वि ववृत्रं भिनद्मि वः ॥
सर्वाष् टीकाः ...{Loading}...
०२ विश्वजन्याः पाञ्चजन्या महारुक्माः
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वजन्याः पाञ्चजन्या
महारुक्माः शिखण्डिनीः ।
सर्वा इन्द्रस्य वज्रेण
हता बुद्बुदयातवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
विश्वजन्याः पाञ्चजन्या
महारुक्माः शिखण्डिनीः ।
सर्वा इन्द्रस्य वज्रेण
हता बुद्बुदयातवः ॥
सर्वाष् टीकाः ...{Loading}...
०३ अन्धाचीम् असिताचीम् उलूखलस्य
विश्वास-प्रस्तुतिः ...{Loading}...
अन्धाचीम् असिताचीम्
उलूखलस्य बुध्नेन ।
अवैतं वत्सपं जहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अन्धाचीम् असिताचीम्
उलूखलस्य बुध्नेन ।
अवैतं वत्सपं जहि ॥
सर्वाष् टीकाः ...{Loading}...
०४ दूराद् एनाः प्रत्य्
विश्वास-प्रस्तुतिः ...{Loading}...
दूराद् एनाः प्रत्य् आ पश्यम्
आपतन्तीर् अथो दिवः ।
देवानां हव्यमोहनीर्
इन्द्रो अप्सरसो हनत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
दूराद् एनाः प्रत्य् आ पश्यम्
आपतन्तीर् अथो दिवः ।
देवानां हव्यमोहनीर्
इन्द्रो अप्सरसो हनत् ॥
सर्वाष् टीकाः ...{Loading}...
०५ आ हता अप
विश्वास-प्रस्तुतिः ...{Loading}...
आ हता अप ता इतः
खलाद् इव यातुधान्यः ।
अमुं गच्छत पूरुषं
समुद्रम् अप गच्छति ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ हता अप ता इतः
खलाद् इव यातुधान्यः ।
अमुं गच्छत पूरुषं
समुद्रम् अप गच्छति ॥
सर्वाष् टीकाः ...{Loading}...
०६ दिवं गच्छन्तु दिव्याः
विश्वास-प्रस्तुतिः ...{Loading}...
दिवं गच्छन्तु दिव्याः
सरो गच्छन्तु सारसीः ।
उलुङ्गुलस्य यो गुहस्
तद् उ गच्छन्त्व् आसुरीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिवं गच्छन्तु दिव्याः
सरो गच्छन्तु सारसीः ।
उलुङ्गुलस्य यो गुहस्
तद् उ गच्छन्त्व् आसुरीः ॥
सर्वाष् टीकाः ...{Loading}...
०७ आस्कन्दिके विस्कन्दिके पराचीर्
विश्वास-प्रस्तुतिः ...{Loading}...
आस्कन्दिके विस्कन्दिके
पराचीर् अप नृत्यन्तु । (Bhatt. nṛtyatu)
सारङ्गेण शुना सह ॥
मूलम् ...{Loading}...
मूलम् (GR)
आस्कन्दिके विस्कन्दिके
पराचीर् अप नृत्यन्तु । (Bhatt. nṛtyatu)
सारङ्गेण शुना सह ॥
सर्वाष् टीकाः ...{Loading}...
०८ यः सारङ्गो हिरण्यदन्
विश्वास-प्रस्तुतिः ...{Loading}...
यः सारङ्गो हिरण्यदन्
श्वा दिव्यः परिप्लवः ।
तस्याहं नाम जग्रभ-
-अस्मा अरिष्टतातये ॥
मूलम् ...{Loading}...
मूलम् (GR)
यः सारङ्गो हिरण्यदन्
श्वा दिव्यः परिप्लवः ।
तस्याहं नाम जग्रभ-
-अस्मा अरिष्टतातये ॥
सर्वाष् टीकाः ...{Loading}...
०९ अद्यां ते विरणी
विश्वास-प्रस्तुतिः ...{Loading}...
अद्यां ते विरणी
पराचीर् अप नृत्यत ।
शृणामि घोरा वः पृष्टी
ब्रह्मणा कीकसा उत ॥
मूलम् ...{Loading}...
मूलम् (GR)
अद्यां ते विरणी
पराचीर् अप नृत्यत ।
शृणामि घोरा वः पृष्टी
ब्रह्मणा कीकसा उत ॥
सर्वाष् टीकाः ...{Loading}...
१० एकत्रिंशद् अश्ववतीश् चतस्र
विश्वास-प्रस्तुतिः ...{Loading}...
एकत्रिंशद् अश्ववतीश्
चतस्र उत गुङ्गुवः ।
शिवा दश शृता दश
केशिनीः पञ्चविंशतिः ।
इदम् उलुङ्गुलुकाभ्यो
अप्सराभ्यो ऽकरं नमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
एकत्रिंशद् अश्ववतीश्
चतस्र उत गुङ्गुवः ।
शिवा दश शृता दश
केशिनीः पञ्चविंशतिः ।
इदम् उलुङ्गुलुकाभ्यो
अप्सराभ्यो ऽकरं नमः ॥