०१६

सर्वाष् टीकाः ...{Loading}...

०१ अरुन्धत्यः सं वदन्ते

विश्वास-प्रस्तुतिः ...{Loading}...

अरुन्धत्यः सं वदन्ते
गावः प्रव्राजिनीर् इव ।
यम् आतुरम् अभिगच्छ-
-अमावतं कृणु मावतम् ॥

०२ इमं मे त्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

इमं मे त्वं जरामृत्युं
पुरुषं कृण्व् ओषधे ।
राज्ञी हि सर्वासाम् अस्य्
ओषधीनाम् अरुन्धती ॥

०३ त्रायमाणा ह्य् असि

विश्वास-प्रस्तुतिः ...{Loading}...

त्रायमाणा ह्य् असि
जीवला वीर्यावती ।
अरुन्धति त्वाम् आहार्षम्
इतो मा पारयान् इति ॥

०४ दिग्धेन च विद्धस्य

विश्वास-प्रस्तुतिः ...{Loading}...

दिग्धेन च विद्धस्य-
-अघस्याघविषा च या ।
अरुन्धति त्वं तस्यासि
विषस्य विषदूषणी ॥

०५ आहेयेन च दष्टस्य

विश्वास-प्रस्तुतिः ...{Loading}...

आहेयेन च दष्टस्य-
-अघस्य (…) ॥ (see 4bcd)

०६ वातीकारेण च क्षिप्तस्य

विश्वास-प्रस्तुतिः ...{Loading}...

वातीकारेण च क्षिप्तस्य-
-अघस्य (…) ॥ (see 4bcd)

०७ भवेन च

विश्वास-प्रस्तुतिः ...{Loading}...

भवेन च (…) । (see 6a)
(…) ॥ (see 4bcd)

०८ शर्वेण च

विश्वास-प्रस्तुतिः ...{Loading}...

शर्वेण च (…) । (see 6a)
(…) ॥ (see 4bcd)

०९ रुद्रेण च

विश्वास-प्रस्तुतिः ...{Loading}...

रुद्रेण च (…) । (see 6a)
(…) ॥ (see 4bcd)

१० पशुपतिना च क्षिप्तस्य

विश्वास-प्रस्तुतिः ...{Loading}...

पशुपतिना च क्षिप्तस्य
(…) ॥ (see 4bcd)