०१५

सर्वाष् टीकाः ...{Loading}...

०१ यावद् द्यौर् यावत्

विश्वास-प्रस्तुतिः ...{Loading}...

यावद् द्यौर् यावत् पृथिवी
यावत् पर्येति सूर्यः ।
तावत् त्वम् उग्र ओषधे
परि पाह्य् अरुन्धति ॥

०२ अरिष्टस् त्वा खनत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

अरिष्टस् त्वा खनत्य्
अरिष्टाय खनामि त्वा ।
द्विपाच् चतुष्पाद् अस्माकं
सर्वम् अस्त्व् अनातुरम् ॥

०३ देवानाम् असि स्वसा

विश्वास-प्रस्तुतिः ...{Loading}...

देवानाम् असि स्वसा
मरुताम् असि सञ्चरी ।
यं जीवम् अश्नुषे त्वं
न स रिष्याति पूरुषः ॥

०४ अरुन्धती नामासि तृतीयस्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

अरुन्धती नामासि
तृतीयस्याम् इतो दिवि ।
तत्रामृतस्य रोहणं
तेन त्वाच्छावदामसि ॥

०५ शं त आपो

विश्वास-प्रस्तुतिः ...{Loading}...

शं त आपो हृद्याः
शं ते कुलिज्या उत ।
शं वातः शं बृहस्पतिः
शं ते तपतु सूर्यः ॥

०६ शं त इन्द्राग्नी

विश्वास-प्रस्तुतिः ...{Loading}...

शं त इन्द्राग्नी भवतां
शं रात्री प्रति धीयताम् ।
शं ते पृथिव्यां वीरुधः
शम् उ ते सन्त्व् ओषधीः ॥

०७ बह्वीषु हि त्वाम्

विश्वास-प्रस्तुतिः ...{Loading}...

बह्वीषु हि त्वाम् अविदम्
ओषधीं वीर्यवतीम् ।
अरुन्धति त्वाम् आहार्षम्
इतो मा पारयान् इति ॥

०८ अभिप्रेप्सेव जीवन्तम् अभि

विश्वास-प्रस्तुतिः ...{Loading}...

अभिप्रेप्सेव जीवन्तम्
अभि दस्येद् अरुन्धती ।
एषा दविद्द्य भेषजी
देवी वातीकृतस्य च ॥

०९ अनु षिञ्च नस्

विश्वास-प्रस्तुतिः ...{Loading}...

अनु षिञ्च नस् तत् कुर्व्
अगदो वै भविष्यति ।
वातीकृतस्य भेषज्य्
आगन् देव्य् अरुन्धती ॥

१० मा बिभेर् न

विश्वास-प्रस्तुतिः ...{Loading}...

मा बिभेर् न मरिष्यस्य्
अगदो वै भविष्यसि ।
वातीकृतस्य भेषज्य्
आगन् देव्य् अरुन्धती ॥