०१४

सर्वाष् टीकाः ...{Loading}...

०१ यज्ञं ब्रूमो यजमानम्

विश्वास-प्रस्तुतिः ...{Loading}...

यज्ञं ब्रूमो यजमानम्
ऋचः सामानि भेषजा ।
यजूंषि होत्रान् ब्रूमस्
ते नो मुञ्चन्त्व् अंहसः ॥

०२ ऋतून् ब्रूम ऋतुपतीन्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋतून् ब्रूम ऋतुपतीन्
आर्तवाꣳ उत हायनान् ।
समाः संवत्सरान् मासस्
ते नो (…) ॥ (see 1d)

०३ दिवं ब्रूमो नक्षत्राणि

विश्वास-प्रस्तुतिः ...{Loading}...

दिवं ब्रूमो नक्षत्राणि
भूमिं यक्षाणि पर्वतान् ।
समुद्रा नद्यो वेशन्तास्
ते (…) ॥ (see 1d)

०४ सप्त ऋषीन् वा

विश्वास-प्रस्तुतिः ...{Loading}...

सप्त ऋषीन् वा इदं ब्रूमो
ऽपो देवीः प्रजापतिम् ।
पितॄन् यमश्रेष्ठान् ब्रूमस्
ते (…) ॥ (see 1d)

०५ विश्वान् देवान् इदम्

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वान् देवान् इदं ब्रूमः
सत्यसन्धान् ऋतावृधः ।
विश्वाभिः पत्नीभिः साकं
ते (…) ॥ (see 1d)

०६ आदित्या रुद्रा वसवो

विश्वास-प्रस्तुतिः ...{Loading}...

आदित्या रुद्रा वसवो
देवा दैवा अथर्वणः ।
अङ्गिरसो मनीषिणस्
ते (…) ॥ (see 1d)

०७ ये देवा दिविषदो

विश्वास-प्रस्तुतिः ...{Loading}...

ये देवा दिविषदो
ऽन्तरिक्षसदश् च ये ।
पृथिव्यां शक्रा ये श्रितास्
ते (…) ॥ (see 1d)

०८ एत देवा दक्षिणतः

विश्वास-प्रस्तुतिः ...{Loading}...

एत देवा दक्षिणतः
पश्वात् प्राञ्च उद् एतन
पुरस्ताच् छक्रा उत्तराद्
विश्वे देवाः समेत्य
ते (…) ॥ (see 1d)

०९ अरायान् ब्रूमो रक्षांसि

विश्वास-प्रस्तुतिः ...{Loading}...

अरायान् ब्रूमो रक्षांसि
सर्पान् पुण्यजनान् उत ।
मृत्यून् एकशतं ब्रूमस्
ते नो मुञ्चन्त्व् अंहसः ॥

१० या देवीः पञ्च

विश्वास-प्रस्तुतिः ...{Loading}...

या देवीः पञ्च प्रदिशो
ये देवा द्वादशर्तवः । (Bhatt. -daśarttavaḥ)
संवत्सरस्य ये दंष्ट्रास्
ते नः सन्तु सदा शिवाः ॥

११ भूतं ब्रूमो भूतपतिम्

विश्वास-प्रस्तुतिः ...{Loading}...

भूतं ब्रूमो भूतपतिं
भूतानाम् उत यस् पतिः ।
भूतानि सर्वा ब्रूमस्
ते नो मुञ्चन्त्व् अंहसः ॥