०१२

सर्वाष् टीकाः ...{Loading}...

०१ प्रामूञ् जयाभीमे जयन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

प्रामूञ् जयाभीमे जयन्तु
केतुमद् दुन्दुभिर् वावदीतु ।
सम् अश्वपर्णाः पतयन्तु नो नरो
ऽस्माकम् इन्द्र रथिनो जयन्तु ॥

०२ इन्द्रो रथाय प्रपदम्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो रथाय प्रपदं कृणोतु
यम् अध्यष्ठान् मघवा जयन्ताम् ।
इर्य इव पशुभिर् युयोतु गोपा
अरिष्टो जातः प्रथमः सिषासन् ॥

०३ पर्जन्यस्येव स्तनयित्नुर् आसोर्

विश्वास-प्रस्तुतिः ...{Loading}...

पर्जन्यस्येव स्तनयित्नुर् आसोर्
इन्द्राग्न्योर् इव चेखिद्यते घोषो अस्य ।
साहस्रो वीरः शतं ससन्वान्
अयुतं ससन्वान् रथ मृडेह ॥

०४ श्येनस्य पक्षौ हरिणस्य

विश्वास-प्रस्तुतिः ...{Loading}...

श्येनस्य पक्षौ हरिणस्य बाहू
इन्द्रस्य मुष्टिर् मरुताम् अनीकम् ।
गोभिः संनद्धो असि वीडयस्व ॥

०५ उद् यंयमीति सहितेव

विश्वास-प्रस्तुतिः ...{Loading}...

उद् यंयमीति सहितेव बाहू
उभे सिचौ यजते भीम ऋञ्जन् ।
उच् छुक्रम् अत्कम् अजते शचीभिर्
नवा मातृभ्यो वसना जहाति ॥

०६ उग्रौ ते नेमी

विश्वास-प्रस्तुतिः ...{Loading}...

उग्रौ ते नेमी पवी त उग्रा
उग्राः शङ्कवो बृहतो रथस्य ।
ईषात्र वेणवो नमतिस् त उग्रा-
-अग्निश् चक्षुः प्रवयणं रथस्य ।
तेनामित्रान् प्रमृणन् याहि शत्रून् ॥

०७ अरा नाभयो बलम्

विश्वास-प्रस्तुतिः ...{Loading}...

अरा नाभयो बलम् इत् ते अक्ष
उग्रौ ते कोषौ सह निस्यदाभ्याम् ।
आण्योर् वध्रान् उत कोषघोरा
स्थानं बन्ध उत वन्धुरं ते ॥

०८ गोष्ठे बलं मृग

विश्वास-प्रस्तुतिः ...{Loading}...

गोष्ठे बलं मृग एकम् अङ्गं (Bhatt. gauṣṭhe)
परा क्रमध्वं मह आ सुवन्त ।
अभीशवो हतानेन वृत्रम्
अयं क्षत्रेण प्रजयास्तूग्रः ॥

०९ आ तिष्ठ जिष्णुस्

विश्वास-प्रस्तुतिः ...{Loading}...

आ तिष्ठ जिष्णुस् तरसा सपत्नान्
साहस्रो वीरः प्रमृणन् याहि शत्रून् ।
पृष्टियुगे कृणुतं वीर्याणि
तद् एताम् एतं रथम् अस्य शग्मे ॥

१० अष्टौ चक्षूंषि कवयः

विश्वास-प्रस्तुतिः ...{Loading}...

अष्टौ चक्षूंषि कवयः सं नमन्त्व्
अश्वा प्राकाशा ऋजु धावयन्तः ।
अनु त्वा स्कम्भो ददतां पितेव चक्रमाणम्
ऐनं धत्स्वोपस्थे प्र तिरात्य् आयुः ॥

११ कविभिः स्यूतः स

विश्वास-प्रस्तुतिः ...{Loading}...

कविभिः स्यूतः स रथे विबद्धः
स धन्वधिर् धनुचित्ते जजान ।
अनुप्रास्येमानि पृथुमध्यमान्य्
अश्वेभ्यः शंत्वाय कविभिः कृतानि
तेभिष् टे शर्म यच्छन्तु देवाः ॥