०११

सर्वाष् टीकाः ...{Loading}...

०१ बृहस्पतिर् नः परि

विश्वास-प्रस्तुतिः ...{Loading}...

बृहस्पतिर् नः परि पातु पश्चाद्
उतोत्तरस्माद् अधराद् अघायोः ।
इन्द्रः पुरस्ताद् उत मध्यतो नः
सखा सखिभ्यो वरिवः कृणोतु ॥

०२ सुपर्णं वस्ते मृगो

विश्वास-प्रस्तुतिः ...{Loading}...

सुपर्णं वस्ते मृगो अस्या दन्तो
गोभिः संनद्धा पतति प्रसूता ।
यत्रा नरः सं च वि च द्रवन्ति
तद् अस्मभ्यम् इषवः शर्म यच्छान् ॥

०३ सुपर्णो वासो यद्

विश्वास-प्रस्तुतिः ...{Loading}...

सुपर्णो वासो यद् उ सर्पिर् आसा
मनो हिरण्यम् इषवः पतत्री ।
मास्माङ् अरन्न् अमुत आपतन्तीर्
इतः प्रहिताः सवितर् जयन्तु ॥

०४ अहिर् इव भोगैः

विश्वास-प्रस्तुतिः ...{Loading}...

अहिर् इव भोगैः पर्य् एति बाहुं
ज्याया हेतिम् अपबाधमानः ।
हस्तघ्नो विश्वा वयुनानि विद्वान्
पुमान् पुमांसं परि पातु मृत्योः ॥

०५ आ जङ्घन्ति सान्व्

विश्वास-प्रस्तुतिः ...{Loading}...

आ जङ्घन्ति सान्व् एषां
जघनाँ उप जिघ्नते ।
अश्वाजनि त्र प्रचोदय-
-अश्वान् समत्सु पादय ॥

०६ दिवस् पृथिव्याः पर्य्

विश्वास-प्रस्तुतिः ...{Loading}...

दिवस् पृथिव्याः पर्य् ओज आभृतं
वनस्पतिभ्यः परि संभृतं सहः ।
अपाम् ओज्मानं परि गोभिर् आभृतम्
इन्द्रस्य वज्रं हविषा रथं यज ॥

०७ इन्द्रस्य वज्रो मरुताम्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रस्य वज्रो मरुताम् अनीकं
मित्रस्य गर्भो वरुणस्य नाभिः ।
सेमां नो हव्यदातिं जुषाणो
देव रथ प्रति हव्या गृभाय ॥

०८ वनस्पते वीड्वङ्गो हि

विश्वास-प्रस्तुतिः ...{Loading}...

वनस्पते वीड्वङ्गो हि भूया
अस्मत्सखा प्रतरणः सुवीरः ।
गोभिः संनद्धो रथ वीडयस्व-
-आस्थाता ते जयतु जेत्वानि ॥

०९ उप श्वासय पृथिवीम्

विश्वास-प्रस्तुतिः ...{Loading}...

उप श्वासय पृथिवीम् उत द्यां
पुरुत्रा ते मनुतां विष्ठितं जगत् ।
स दुन्दुभे सजूर् इन्द्रेण देवैर्
दूराद् दवीयो अप सेध शत्रून् ॥

१० आ क्रन्दय बलम्

विश्वास-प्रस्तुतिः ...{Loading}...

आ क्रन्दय बलम् ओजो न आ धा
अभि ष्टन दुरिता बाधमानः ।
अप सेध दुन्दुभे दुच्छुनाम् इत
इन्द्रस्य मुष्टिर् असि वीडयस्व ॥