०१०

सर्वाष् टीकाः ...{Loading}...

०१ जीमूतस्येव भवति प्रतीकम्

विश्वास-प्रस्तुतिः ...{Loading}...

जीमूतस्येव भवति प्रतीकं
यद् वर्मी याति समदाम् उपस्थे ।
अनाविद्धया तन्वा जय त्वं
स त्वा वर्मणो महिमा पिपर्तु ॥

०२ धन्वना गा धन्वनाजिम्

विश्वास-प्रस्तुतिः ...{Loading}...

धन्वना गा धन्वनाजिं जयेम
धन्वना तीव्राः समदो जयेम ।
धनुः शत्रोर् अपकामं कृणोतु
धन्वना सर्वाः पृतना जयेम ॥

०३ वक्ष्यन्तीवेद् आ गनीगन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

वक्ष्यन्तीवेद् आ गनीगन्ति कर्णं
प्रियं सखायं परिषस्वजाना ।
योषेव शिङ्क्ते वितताधि धन्वञ्
ज्या इयं समिति पारयन्ती ॥

०४ ते आचरन्ती समनेव

विश्वास-प्रस्तुतिः ...{Loading}...

ते आचरन्ती समनेव योषा
मातेव पुत्रं पिपृताम् उपस्थे ।
अप शत्रून् विध्यतां संविदाने
आर्त्नी इमे विस्फुरन्ती अमित्रान् ॥

०५ बह्वीनां पिता बहुर्

विश्वास-प्रस्तुतिः ...{Loading}...

बह्वीनां पिता बहुर् अस्य पुत्रो
व्यचः कृणोति समदो ऽवगत्य ।
इषुधिः सङ्काः पृतनाश् च सर्वाः
पृष्ठे निनद्धो जयति प्रसूतः ॥

०६ रथे तिष्ठन् नयति

विश्वास-प्रस्तुतिः ...{Loading}...

रथे तिष्ठन् नयति वाजिनः पुरो
यत्रयत्र कामयते सुषारथिः ।
अभीशूनां महिमानं पनायत
मनः पश्चाद् अनु यच्छन्ति रश्मयः ॥

०७ तीव्रान् घोषान् कृण्वताम्

विश्वास-प्रस्तुतिः ...{Loading}...

तीव्रान् घोषान् कृण्वतां वृषपाणयो
ऽश्वा रथेभिः सह वाजयन्तः ।
अपक्रामन्तः प्रपदैर् अमित्रान्
क्षिणन्ति शत्रूंर् अनपव्ययन्तः ॥

०८ रथवाहनं हविर् अस्य

विश्वास-प्रस्तुतिः ...{Loading}...

रथवाहनं हविर् अस्य नाम
यत्रायुधं निहितम् अस्य वर्म ।
तत्रा रथम् उप शग्मं सदेम
विश्वाहा वयं सुमनस्यमानाः ॥

०९ स्वादुषंसदः पितरो वयोधाः

विश्वास-प्रस्तुतिः ...{Loading}...

स्वादुषंसदः पितरो वयोधाः
कृच्छ्रेश्रितः शक्तीवन्तो गभीराः ।
चित्रसेना इषुबला अमृध्राः
सतोवीरा उरवो व्रातसाहाः ॥

१० ब्रह्मणासः पितरः सोम्यासः

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्मणासः पितरः सोम्यासः
शिवे नो द्यावापृथिवी अनेहसा ।
पूषा नः पातु दूरिताद् ऋतावृधो
रक्षा माकिर् णो अघशंस ईशत ॥