सर्वाष् टीकाः ...{Loading}...
०१ परि धत्त धत्त
विश्वास-प्रस्तुतिः ...{Loading}...
परि धत्त धत्त वर्चसेमं
जरामृत्युं कृणुत दीर्घम् आयुः ।
बृहस्पतिः प्रायच्छद् वास एतत्
सोमाय राज्ञे परिधातवा उ ॥
मूलम् ...{Loading}...
मूलम् (GR)
परि धत्त धत्त वर्चसेमं
जरामृत्युं कृणुत दीर्घम् आयुः ।
बृहस्पतिः प्रायच्छद् वास एतत्
सोमाय राज्ञे परिधातवा उ ॥
सर्वाष् टीकाः ...{Loading}...
०२ जरां सु गच्छ
विश्वास-प्रस्तुतिः ...{Loading}...
जरां सु गच्छ परि धत्स्व वासो
भवा गृष्टीनाम् अभिशस्तिवा उ ।
शतं च जीव शरदः सुवर्चा
रायस्पोषम् उप सं व्ययस्व ॥
मूलम् ...{Loading}...
मूलम् (GR)
जरां सु गच्छ परि धत्स्व वासो
भवा गृष्टीनाम् अभिशस्तिवा उ ।
शतं च जीव शरदः सुवर्चा
रायस्पोषम् उप सं व्ययस्व ॥
सर्वाष् टीकाः ...{Loading}...
०३ परीदं वासो अपि
विश्वास-प्रस्तुतिः ...{Loading}...
परीदं वासो अपि धाः स्वस्तये
ऽभूर् वापीनाम् अभिशस्तिपा उ ।
शतं च जीव शरदः पुरूचीर्
वसूनि चारुर् विभजासि जीवन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
परीदं वासो अपि धाः स्वस्तये
ऽभूर् वापीनाम् अभिशस्तिपा उ ।
शतं च जीव शरदः पुरूचीर्
वसूनि चारुर् विभजासि जीवन् ॥
सर्वाष् टीकाः ...{Loading}...
०४ योगे योगे तपस्तरम्
विश्वास-प्रस्तुतिः ...{Loading}...
योगे योगे तपस्तरं
वाजे वाजे हवामहे ।
सखाय इन्द्रम् ऊतये ॥
मूलम् ...{Loading}...
मूलम् (GR)
योगे योगे तपस्तरं
वाजे वाजे हवामहे ।
सखाय इन्द्रम् ऊतये ॥
सर्वाष् टीकाः ...{Loading}...
०५ हिरण्यवर्णो अजरः सुवीरो
विश्वास-प्रस्तुतिः ...{Loading}...
हिरण्यवर्णो अजरः सुवीरो
जरामृत्युः प्रजया सं विशस्व ।
तद् अग्निर् आह तद् उ सोम आह
बृहस्पतिः सविता तद् इन्द्रः ॥
मूलम् ...{Loading}...
मूलम् (GR)
हिरण्यवर्णो अजरः सुवीरो
जरामृत्युः प्रजया सं विशस्व ।
तद् अग्निर् आह तद् उ सोम आह
बृहस्पतिः सविता तद् इन्द्रः ॥
सर्वाष् टीकाः ...{Loading}...
०६ यदोत्तमत् तन्तु बधाय
विश्वास-प्रस्तुतिः ...{Loading}...
यदोत्तमत् तन्तु बधाय
नावद्वासः पूर्वयावत् पुरुरूपपेशः ।
भद्रातीका समजरं सुवीरं
तेन देवाः प्र तिरन्त्व् आयुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यदोत्तमत् तन्तु बधाय
नावद्वासः पूर्वयावत् पुरुरूपपेशः ।
भद्रातीका समजरं सुवीरं
तेन देवाः प्र तिरन्त्व् आयुः ॥
सर्वाष् टीकाः ...{Loading}...
०७ यस्य ब्राह्मणः सिचम्
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य ब्राह्मणः सिचम् आरभन्ते
श्रथ्नन्तो नीवं प्रतिरन्त आयुः ।
तस्य देवा देवहूतिं जुषन्तां
स विश्वहा सचतां स्वस्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्य ब्राह्मणः सिचम् आरभन्ते
श्रथ्नन्तो नीवं प्रतिरन्त आयुः ।
तस्य देवा देवहूतिं जुषन्तां
स विश्वहा सचतां स्वस्ति ॥
सर्वाष् टीकाः ...{Loading}...
०८ अन्यद् आ धत्स्व
विश्वास-प्रस्तुतिः ...{Loading}...
अन्यद् आ धत्स्व परि धत्स्व वास
इमम् उल्बम् अप लुम्पामि यस् ते ।
जरसे त्वाम् ऋषयः सं व्ययन्तु
सूर्यो भगस् ते प्र तिरन्त्व् आयुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अन्यद् आ धत्स्व परि धत्स्व वास
इमम् उल्बम् अप लुम्पामि यस् ते ।
जरसे त्वाम् ऋषयः सं व्ययन्तु
सूर्यो भगस् ते प्र तिरन्त्व् आयुः ॥
सर्वाष् टीकाः ...{Loading}...
०९ यस्य देवासः प्रथमवास्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य देवासः प्रथमवास्यं
हरामि तं त्वा विश्वे अवन्तु देवाः ।
तं त्वा भ्रातरः सुवृधा वर्धमानम्
अनु जायन्तां बहवः सुजातम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्य देवासः प्रथमवास्यं
हरामि तं त्वा विश्वे अवन्तु देवाः ।
तं त्वा भ्रातरः सुवृधा वर्धमानम्
अनु जायन्तां बहवः सुजातम् ॥
सर्वाष् टीकाः ...{Loading}...
१० अहतेनाहतो भव स्थिर
विश्वास-प्रस्तुतिः ...{Loading}...
अहतेनाहतो भव
स्थिर स्थिरेण सं भव ।
प्र मृणीहि दुरस्यतः
सहस्व पृतनायतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहतेनाहतो भव
स्थिर स्थिरेण सं भव ।
प्र मृणीहि दुरस्यतः
सहस्व पृतनायतः ॥