००२

सर्वाष् टीकाः ...{Loading}...

०१ स्तोमैकविंशे भुवनस्य पत्नि

विश्वास-प्रस्तुतिः ...{Loading}...

स्तोमैकविंशे भुवनस्य पत्नि
विवस्वग्वाते अभि नो गृणीहि ।
घृतवती सवितर् आधिपत्ये
पयस्वती रन्तिर् आशा नो अस्तु ॥

०२ ऊर्ध्वा दिशां रन्तिर्

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्ध्वा दिशां रन्तिर् आशौषधीनां
संवत्सरेण सविता नो अह्ना ।
रेवत् साम्नां पङ्क्तिश् छन्दसाम्
अजातशत्रुः स्योना नो अस्तु ॥

०३ विष्टम्भो दिवो धरुणः

विश्वास-प्रस्तुतिः ...{Loading}...

विष्टम्भो दिवो धरुणः पृथिव्या
अस्येशाना जगतो विष्णुपत्नी ।
विश्वव्यचा इषयन्ती सुहुतिः
स्योना नो अस्त्व् अदितेर् उपस्थे ॥

०४ ध्रुवा दिशां विष्णुपत्न्य्

विश्वास-प्रस्तुतिः ...{Loading}...

ध्रुवा दिशां विष्णुपत्न्य् अघोरा-
-अस्येशाना सहसो या मनोता ।
बृहस्पतिर् मातरिश्वोत वायुः
संधाना वाता अभि नो गृणन्तु ॥

०५ यो नः पिता

विश्वास-प्रस्तुतिः ...{Loading}...

यो नः पिता जनिता यो विधर्ता
यो नः सतो अभ्य् आ सज् जजान ।
स आशिषा द्रविणम् इच्छमानः
प्रथमच्छदो वर आ विवेश ॥

०६ अभ्य् आ वर्तस्व

विश्वास-प्रस्तुतिः ...{Loading}...

अभ्य् आ वर्तस्व पृथिवी
यज्ञेन पयसा सह ।
अपान्तो अग्निर् इषितो ऽव रोहतु ॥

०७ यद् अग्ने चन्द्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अग्ने चन्द्रं यत् पूतं
यच् छुक्रं यच् च यज्ञियम् ।
तद् देवेभ्यो भरामसि ॥

०८ इषम् ऊर्जम् अहम्

विश्वास-प्रस्तुतिः ...{Loading}...

इषम् ऊर्जम् अहम् अत आदि
यज्ञस्य योनौ महिषस्य धामन् ।
आ नो गोषु विशस्त्व् आ प्रजायां
जहामि सेदिम् अनिराम् अमीवाम् ॥