सर्वाष् टीकाः ...{Loading}...
०१ सम्यन् दिग्भ्यः पवते
विश्वास-प्रस्तुतिः ...{Loading}...
सम्यन् दिग्भ्यः पवते सं स्वर्विन्
मधोर् अतो माधवः पात्व् अस्मान् ।
अग्निर् देवो दुष्टरीतुर् अदाभ्य
इदं क्षत्रं रक्षतु पात्व् अस्मान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सम्यन् दिग्भ्यः पवते सं स्वर्विन्
मधोर् अतो माधवः पात्व् अस्मान् ।
अग्निर् देवो दुष्टरीतुर् अदाभ्य
इदं क्षत्रं रक्षतु पात्व् अस्मान् ॥
सर्वाष् टीकाः ...{Loading}...
०२ रथन्तरं सामभिः पात्व्
विश्वास-प्रस्तुतिः ...{Loading}...
रथन्तरं सामभिः पात्व् अस्मान्
गायत्रेण च्छन्दसा विश्वरूपम् ।
द्वादशा इष्टया स्तोमो अह्नां
समुद्रो वाच इदम् ओजः पिपर्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
रथन्तरं सामभिः पात्व् अस्मान्
गायत्रेण च्छन्दसा विश्वरूपम् ।
द्वादशा इष्टया स्तोमो अह्नां
समुद्रो वाच इदम् ओजः पिपर्तु ॥
सर्वाष् टीकाः ...{Loading}...
०३ उग्रा दिशाम् अभिभूतिर्
विश्वास-प्रस्तुतिः ...{Loading}...
उग्रा दिशाम् अभिभूतिर् वयोधाः
शुचिः शुक्रे अहन्य् ओजस्ये ।
इन्द्राधिपतिः पिपृताद् अतो नो
मयि क्षत्रं विश्वतो धारयेदम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उग्रा दिशाम् अभिभूतिर् वयोधाः
शुचिः शुक्रे अहन्य् ओजस्ये ।
इन्द्राधिपतिः पिपृताद् अतो नो
मयि क्षत्रं विश्वतो धारयेदम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ बृहद् राष्ट्रं क्षत्रभृद्
विश्वास-प्रस्तुतिः ...{Loading}...
बृहद् राष्ट्रं क्षत्रभृद् वृद्धवृष्ण्यं
त्रिष्टुभौजः शुभितम् उग्रवीरम् ।
इन्द्र स्तोमैः पञ्चदशेन वर्च
इदं वातेन सगरेण रक्षतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
बृहद् राष्ट्रं क्षत्रभृद् वृद्धवृष्ण्यं
त्रिष्टुभौजः शुभितम् उग्रवीरम् ।
इन्द्र स्तोमैः पञ्चदशेन वर्च
इदं वातेन सगरेण रक्षतु ॥
सर्वाष् टीकाः ...{Loading}...
०५ प्राची दिशां सहयशा
विश्वास-प्रस्तुतिः ...{Loading}...
प्राची दिशां सहयशा यशस्वती
विश्वे देवाः प्रावृषाह्नां स्वर्वती ।
इदं क्षत्रं दुष्टरम् अस्त्व् ओजो
अनाधृष्टं सहस्वं सहस्वत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्राची दिशां सहयशा यशस्वती
विश्वे देवाः प्रावृषाह्नां स्वर्वती ।
इदं क्षत्रं दुष्टरम् अस्त्व् ओजो
अनाधृष्टं सहस्वं सहस्वत् ॥
सर्वाष् टीकाः ...{Loading}...
०६ वैरूपे सामन्य् अह
विश्वास-प्रस्तुतिः ...{Loading}...
वैरूपे सामन्य् अह तच् छकेयं
जगत्यैनद् विक्ष्व् आ वेशयामि ।
विश्वे देवाः सप्तदशेन वद्यम्
इदं क्षत्रं सलिलावतम् उग्रम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वैरूपे सामन्य् अह तच् छकेयं
जगत्यैनद् विक्ष्व् आ वेशयामि ।
विश्वे देवाः सप्तदशेन वद्यम्
इदं क्षत्रं सलिलावतम् उग्रम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ धत्री दिशां क्षत्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
धत्री दिशां क्षत्रम् इदं दाधर्तु-
-उपस्थाशानां मित्रवद् अस्त्व् ओजः ।
मित्रावरुणा शरदाह्ना चिकित्नू
अस्मै क्षत्राय महि शर्म यच्छतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
धत्री दिशां क्षत्रम् इदं दाधर्तु-
-उपस्थाशानां मित्रवद् अस्त्व् ओजः ।
मित्रावरुणा शरदाह्ना चिकित्नू
अस्मै क्षत्राय महि शर्म यच्छतम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ वैराजे सामन्य् अधि
विश्वास-प्रस्तुतिः ...{Loading}...
वैराजे सामन्य् अधि मे मनीषा-
-अनुष्टुभा संभृतं वीर्यं सहः ।
इदं क्षत्रं मित्रवद् आर्द्रदान्व् ओजा
मित्रावरुणा रक्षतम् आधिपत्ये ॥
मूलम् ...{Loading}...
मूलम् (GR)
वैराजे सामन्य् अधि मे मनीषा-
-अनुष्टुभा संभृतं वीर्यं सहः ।
इदं क्षत्रं मित्रवद् आर्द्रदान्व् ओजा
मित्रावरुणा रक्षतम् आधिपत्ये ॥
सर्वाष् टीकाः ...{Loading}...
०९ सम्राड् दिशां सहसाम्नी
विश्वास-प्रस्तुतिः ...{Loading}...
सम्राड् दिशां सहसाम्नी सहस्वत्य्
ऋतुर् हेमन्तो विष्ठया नः पिपर्तु ।
ओषजातां बृहती च शक्वरी-
-इमं यज्ञम् अवतां नो घृताची ॥
मूलम् ...{Loading}...
मूलम् (GR)
सम्राड् दिशां सहसाम्नी सहस्वत्य्
ऋतुर् हेमन्तो विष्ठया नः पिपर्तु ।
ओषजातां बृहती च शक्वरी-
-इमं यज्ञम् अवतां नो घृताची ॥
सर्वाष् टीकाः ...{Loading}...
१० स्वर्वती सुदुघा नः
विश्वास-प्रस्तुतिः ...{Loading}...
स्वर्वती सुदुघा नः पयस्वती
दिशां देव्य् अवतु नो घृताची ।
त्वं गोपाः पुरएतोत पश्चाद्
बृहस्पते याम्यां युङ्धि वाचम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्वर्वती सुदुघा नः पयस्वती
दिशां देव्य् अवतु नो घृताची ।
त्वं गोपाः पुरएतोत पश्चाद्
बृहस्पते याम्यां युङ्धि वाचम् ॥