००६

सर्वाष् टीकाः ...{Loading}...

०१ दिवं प्रेहि शतौदने

विश्वास-प्रस्तुतिः ...{Loading}...

दिवं प्रेहि शतौदने
सहस्रस्यायनं भव ।
अयुतं प्रयुतं भव-
-अक्षितिर् भवतात् त्वं
स्वर्गं लोकम् आरुहः ॥

०२ शतौदनां शतधा भक्षयन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

शतौदनां शतधा भक्षयन्ति
शतं रोहान् रोहति यो ददाति ।
वामदेव्यं नौधसम् अस्याः पक्षौ
तृतीये नाके अधि विष्टपि श्रिता ॥

०३ शतौदनां शतधा कल्पमाना

विश्वास-प्रस्तुतिः ...{Loading}...

शतौदनां शतधा कल्पमाना
शतं रूपाणि कृणुते स्वर्यती ।
सा नो देवी सुहवा शर्म यच्छत्व्
अथो मृडातीदृशे ॥

०४ शतौदना द्वादशाहेन सम्मिता

विश्वास-प्रस्तुतिः ...{Loading}...

शतौदना द्वादशाहेन संमिता
शतं पृष्ठानि ससृजे स्वर्यती ।
सर्वान् यज्ञान् परियती परस्तात्
सा दातारं रायस्पोषे दधातु ॥

०५ अभि प्रेहि शतौदन

विश्वास-प्रस्तुतिः ...{Loading}...

अभि प्रेहि शतौदन
ईजानान् सोमसत्वनः ।
यज्ञांस् त्वं सर्वान् आप्त्वा
कामप्रस्यायनं भव ॥

०६ अभि प्रेहि शतौदने

विश्वास-प्रस्तुतिः ...{Loading}...

अभि प्रेहि शतौदने
यज्ञेनायज्वनस् तर ।
आ देवयून् अरूरुहो
यत्रादस् त्रिदिवं दिवः ॥

०७ ईरापदी प्रथमा शतौदना

विश्वास-प्रस्तुतिः ...{Loading}...

ईरापदी प्रथमा शतौदना
सत्यं ह मध्यम् अमृतं शिरस् तव ।
उभे देवी रोदसी आ पृणासि ॥

०८ ऋतं ह श्रोणी

विश्वास-प्रस्तुतिः ...{Loading}...

ऋतं ह श्रोणी उत सक्थौ तन्वा-
-ओजो ह बाहू उत तद् बलाय कम् ।
अनुष्ठु जठरम् आद् उ पार्श्वे
सर्वाꣳल् लोकां छतौदना समाप ॥

०९ चक्षुष्मती प्रथमा शतौदना

विश्वास-प्रस्तुतिः ...{Loading}...

चक्षुष्मती प्रथमा शतौदना
सूर्यो ह चक्षुर् उत चन्द्रमास् तव ।
विश्वैर् देवैर् ऋतुभिः संविदाना
सा दातारं तृप्त्या तर्पयासि ॥

१० शतं पयांसि शतम्

विश्वास-प्रस्तुतिः ...{Loading}...

शतं पयांसि शतम् अस्या वत्साः
शतधा पक्वां वि भजन्त्य् एनाम् ।
सप्त लोका दिव्य् आर्पिता ये तां
जिगेथ प्रथमा शतौदने ॥