००५

सर्वाष् टीकाः ...{Loading}...

०१ सुपार्श्वा कामदुघा न

विश्वास-प्रस्तुतिः ...{Loading}...

सुपार्श्वा कामदुघा न आगञ्
छतौदना पयसा पिन्वमाना ।
ऊर्जं दुहाना अनपस्फुरन्ती
यजमानस्य प्र तिरन्त्य् आयुः ॥

०२ गृभ्णामि मेध्याम् उशतीम्

विश्वास-प्रस्तुतिः ...{Loading}...

गृभ्णामि मेध्याम् उशतीं
स्वस्तय ऊर्जस्वतीम्
अनमीवां स्वाध्याम् ।
विश्वो लोको मम देवेष्व् अस्तु
शतौदनां श्रद्दधानः पचामि ॥

०३ बधान देवीम् अभि

विश्वास-प्रस्तुतिः ...{Loading}...

बधान देवीम् अभि धेहि मुञ्जतीं
शतौदनां कामदुघा ह्य् एषा ।
मैनां हिंसीर् अश्मना जहृषाणो
ऽप्य् एतु देवाँ अति गच्छति द्विषः ॥

०४ आ रभस्व ब्रह्मणा

विश्वास-प्रस्तुतिः ...{Loading}...

आ रभस्व ब्रह्मणा वैश्वदेवीं
शतौदनां शतपाप्मानो अस्याः ।
समर्पयन्न् अश्मना पर्वतेन
स्वर्गं लोकम् अधि रोहयैनम् ॥

०५ धृष्णु ह्य् एनाम्

विश्वास-प्रस्तुतिः ...{Loading}...

धृष्णु ह्य् एनां विकृता विकृन्तन्न्
अपघ्नंश् चर्मेरया सं सृजैनाम् ।
विराजो दुहितेरया समक्ता
कामं कामं यजमानाय दुहाम् ॥

०६ यथापरु विशसन्नाति मंस्थाः

विश्वास-प्रस्तुतिः ...{Loading}...

यथापरु विशसन्नाति मंस्थाः
कृणुष्वा मे नावधेयानि पृथक् ।
अगन् देवान् मानुषी या पुराभूच्
छतौदना पुरुरूपा सुवर्णा ॥

०७ द्विपाद् द्विहस्तः पुरुषो

विश्वास-प्रस्तुतिः ...{Loading}...

द्विपाद् द्विहस्तः पुरुषो महादमो
वनस्पतिं बिभर्ति सायकाग्रम् ।
तेन परूंषि प्रविद्वान् अघ्न्यायाः
शतौदनां देवीं शतधा व्य् अस्य ॥

०८ एतं ब्रध्नं चर्मणः

विश्वास-प्रस्तुतिः ...{Loading}...

एतं ब्रध्नं चर्मणः कृन्त साधु
तम् उ प्रमाय शतधा व्य् अस्य ।
सम् उत् सृजन्न् अवधानानि सर्वा
रायस्पोषं यजमानाय धेहि ॥

०९ ऋचा कुम्भीम् अध्य्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋचा कुम्भीम् अध्य् अग्नौ श्रयामि
भूम्यां त्वा भूमिम् अधि धारयामि ।
अपो मांसं बिभ्रती मा व्यथिष्ठा
मा त्वा वधिषुर् मेनिभिः पिशाचाः ॥

१० ऊर्ध्व प्रेहि मा

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्ध्व प्रेहि मा सं विक्था
व्य् अस्य रजो अन्तरम् ।
रक्षांसि सर्वा तीर्त्वा-
-अथा रोह दिवं त्वम् ॥