सर्वाष् टीकाः ...{Loading}...
०१ नमो ऽस्तु नीलशिखण्डाय
विश्वास-प्रस्तुतिः ...{Loading}...
नमो ऽस्तु नीलशिखण्डाय
सहस्राक्षाय वाजिने ।
अथो ये अस्य सत्वानस्
तेभ्यो ऽहम् अकरं नमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
नमो ऽस्तु नीलशिखण्डाय
सहस्राक्षाय वाजिने ।
अथो ये अस्य सत्वानस्
तेभ्यो ऽहम् अकरं नमः ॥
सर्वाष् टीकाः ...{Loading}...
०२ नमांसि त आयुधाय
विश्वास-प्रस्तुतिः ...{Loading}...
नमांसि त आयुधाय-
-अनातताय धृष्णवे ।
उभाभ्याम् अकरं नमो
बाहुभ्यां तव धन्वने ॥
मूलम् ...{Loading}...
मूलम् (GR)
नमांसि त आयुधाय-
-अनातताय धृष्णवे ।
उभाभ्याम् अकरं नमो
बाहुभ्यां तव धन्वने ॥
सर्वाष् टीकाः ...{Loading}...
०३ प्र मुञ्च धन्वनस्
विश्वास-प्रस्तुतिः ...{Loading}...
प्र मुञ्च धन्वनस् पर्य्
उभयोर् आत्न्योर् ज्याम् ।
याश् च ते हस्त इषवः
परा ता भगवो वप ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्र मुञ्च धन्वनस् पर्य्
उभयोर् आत्न्योर् ज्याम् ।
याश् च ते हस्त इषवः
परा ता भगवो वप ॥
सर्वाष् टीकाः ...{Loading}...
०४ अवतत्य धनुस् त्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
अवतत्य धनुस् त्वं
सहस्राक्ष शतेषुधे ।
निशीर्य शल्यानां मुखा
शिवो नः शम्भुर् आ चर ॥
मूलम् ...{Loading}...
मूलम् (GR)
अवतत्य धनुस् त्वं
सहस्राक्ष शतेषुधे ।
निशीर्य शल्यानां मुखा
शिवो नः शम्भुर् आ चर ॥
सर्वाष् टीकाः ...{Loading}...
०५ विज्यं धनुः शिखण्डिनो
विश्वास-प्रस्तुतिः ...{Loading}...
विज्यं धनुः शिखण्डिनो
विशल्यो बाणवाँ उत ।
अनेशन्न् अस्येषवः
शिवो अस्य निषङ्गतिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
विज्यं धनुः शिखण्डिनो
विशल्यो बाणवाँ उत ।
अनेशन्न् अस्येषवः
शिवो अस्य निषङ्गतिः ॥
सर्वाष् टीकाः ...{Loading}...
०६ परि ते धन्वनो
विश्वास-प्रस्तुतिः ...{Loading}...
परि ते धन्वनो हेतिर्
अस्मान् वृणक्तु विश्वतः ।
अथो य इषुधिस् तव-
-आरे अस्मिन् नि धेहि तम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
परि ते धन्वनो हेतिर्
अस्मान् वृणक्तु विश्वतः ।
अथो य इषुधिस् तव-
-आरे अस्मिन् नि धेहि तम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ या ते हेतिर्
विश्वास-प्रस्तुतिः ...{Loading}...
या ते हेतिर् मीढुष्टम
हस्ते बभूव ते धनुः ।
तया त्वं विश्वतो अस्मान्
अयक्ष्मया परि भुज ॥
मूलम् ...{Loading}...
मूलम् (GR)
या ते हेतिर् मीढुष्टम
हस्ते बभूव ते धनुः ।
तया त्वं विश्वतो अस्मान्
अयक्ष्मया परि भुज ॥