सर्वाष् टीकाः ...{Loading}...
०१ अपश्यं त्वावरोहन्तं दिवतः
विश्वास-प्रस्तुतिः ...{Loading}...
अपश्यं त्वावरोहन्तं
दिवतः पृथिवीम् इव ।
अपश्यम् अस्यन्तं रुद्रं
नीलग्रीवं शिखण्डिनम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपश्यं त्वावरोहन्तं
दिवतः पृथिवीम् इव ।
अपश्यम् अस्यन्तं रुद्रं
नीलग्रीवं शिखण्डिनम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ दिव उग्रो ऽवारुक्षत्
विश्वास-प्रस्तुतिः ...{Loading}...
दिव उग्रो ऽवारुक्षत्
प्रत्य् अष्ठाद् भूम्याम् अधि ।
जनासः पश्यतेमं
नीलग्रीवं विलोहितम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिव उग्रो ऽवारुक्षत्
प्रत्य् अष्ठाद् भूम्याम् अधि ।
जनासः पश्यतेमं
नीलग्रीवं विलोहितम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ एष ऐत्य् अवीरहा
विश्वास-प्रस्तुतिः ...{Loading}...
एष ऐत्य् अवीरहा
रुद्रो जलाषभेषजी ।
वि ते क्षेपम् अनीनशद्
वातीकारो व्य् एतु ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
एष ऐत्य् अवीरहा
रुद्रो जलाषभेषजी ।
वि ते क्षेपम् अनीनशद्
वातीकारो व्य् एतु ते ॥
सर्वाष् टीकाः ...{Loading}...
०४ नमस् ते भव
विश्वास-प्रस्तुतिः ...{Loading}...
नमस् ते भव भामाय
नमस् ते भव मन्यवे ।
नमस् ते अस्तु बाहूभ्याम्
उतो त इषवे नमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
नमस् ते भव भामाय
नमस् ते भव मन्यवे ।
नमस् ते अस्तु बाहूभ्याम्
उतो त इषवे नमः ॥
सर्वाष् टीकाः ...{Loading}...
०५ याम् इषं गिरिशन्त
विश्वास-प्रस्तुतिः ...{Loading}...
याम् इषं गिरिशन्त
हस्ते बिभर्ष्य् अस्तवे ।
शिवां गिरिश तां कृणु
मा हिंसीः पुरुषान् मम ॥
मूलम् ...{Loading}...
मूलम् (GR)
याम् इषं गिरिशन्त
हस्ते बिभर्ष्य् अस्तवे ।
शिवां गिरिश तां कृणु
मा हिंसीः पुरुषान् मम ॥
सर्वाष् टीकाः ...{Loading}...
०६ शिवेन वचसा त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
शिवेन वचसा त्वा
गिरिशाच्छा वदामसि ।
यथा नः सर्वम् इज् जगद्
अयक्ष्मं सुमनो असत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
शिवेन वचसा त्वा
गिरिशाच्छा वदामसि ।
यथा नः सर्वम् इज् जगद्
अयक्ष्मं सुमनो असत् ॥
सर्वाष् टीकाः ...{Loading}...
०७ या त इषुः
विश्वास-प्रस्तुतिः ...{Loading}...
या त इषुः शिवतमा
शिवं बभूव ते धनुः ।
शिवा शरव्या या तव
तया नो मृड जीवसे ॥
मूलम् ...{Loading}...
मूलम् (GR)
या त इषुः शिवतमा
शिवं बभूव ते धनुः ।
शिवा शरव्या या तव
तया नो मृड जीवसे ॥
सर्वाष् टीकाः ...{Loading}...
०८ या ते रुद्र
विश्वास-प्रस्तुतिः ...{Loading}...
या ते रुद्र शिवा तनूर्
अघोरापापकाशिनी ।
तया नस् तन्वा शन्तमया
गिरिशन्ताभि चाकश ॥
मूलम् ...{Loading}...
मूलम् (GR)
या ते रुद्र शिवा तनूर्
अघोरापापकाशिनी ।
तया नस् तन्वा शन्तमया
गिरिशन्ताभि चाकश ॥
सर्वाष् टीकाः ...{Loading}...
०९ असौ यस् ताम्रो
विश्वास-प्रस्तुतिः ...{Loading}...
असौ यस् ताम्रो अरुण
उत बभ्रुर् विलोहितः ।
ये चेमे अभितो रुद्रा
दिक्षु श्रिताः सहस्रशो
ऽवैषां हेड ईमहे ॥
मूलम् ...{Loading}...
मूलम् (GR)
असौ यस् ताम्रो अरुण
उत बभ्रुर् विलोहितः ।
ये चेमे अभितो रुद्रा
दिक्षु श्रिताः सहस्रशो
ऽवैषां हेड ईमहे ॥
सर्वाष् टीकाः ...{Loading}...
१० अदृशं त्वावरोहन्तं नीलग्रीवम्
विश्वास-प्रस्तुतिः ...{Loading}...
अदृशं त्वावरोहन्तं
नीलग्रीवं विलोहितम् ।
उत त्वा गोपा अदृशन्न्
उत त्वोदाहार्यः ।
उतो त्वा विश्वा भूतानि
तस्मै दृष्टाय ते नमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अदृशं त्वावरोहन्तं
नीलग्रीवं विलोहितम् ।
उत त्वा गोपा अदृशन्न्
उत त्वोदाहार्यः ।
उतो त्वा विश्वा भूतानि
तस्मै दृष्टाय ते नमः ॥