००१

सर्वाष् टीकाः ...{Loading}...

०१ एन्द्रो बाहुभ्याम् अभरच्

विश्वास-प्रस्तुतिः ...{Loading}...

एन्द्रो बाहुभ्याम् अभरच् चिकित्वान्
अपो देवीर् वरुणाय प्रजानन् ।
तम् आदित्या अभ्य् अषिञ्चन्त सर्वे
राजानम् उग्रं बृहते रणाय
ता न आपो राजसूया अवन्तु ॥

०२ हिरण्यवर्णा इति चतस्रः

विश्वास-प्रस्तुतिः ...{Loading}...

हिरण्यवर्णा इति चतस्रः ॥ (PS 1.25.1-4 are repeated with a different refrain (= 14.1.1e))

०३

विश्वास-प्रस्तुतिः ...{Loading}...

(…) ॥ (PS 1.25.2 is repeated with a different refrain (= 14.1.1e))

०४

विश्वास-प्रस्तुतिः ...{Loading}...

(…) ॥ (PS 1.25.3 is repeated with a different refrain (= 14.1.1e))

०५

विश्वास-प्रस्तुतिः ...{Loading}...

(…) ॥ (PS 1.25.4 is repeated with a different refrain (= 14.1.1e))

०६ अपो देवीर् मधुमतीर्

विश्वास-प्रस्तुतिः ...{Loading}...

अपो देवीर् मधुमतीर् अगृह्णत-
-ऊर्जस्वती राजसूया मयोभुवः ।
याभिर् मित्रावरुणाव् अभ्यसिञ्चन्
ताः (…) ॥ (see 1e)

०७ वरुणेन प्रेषिता यन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

वरुणेन प्रेषिता यन्ति शुभ्रा
उत्सं देवीर् दधते या हिरण्ययम् ।
या ब्रह्मणा पुनते संविदानास्
ताः (…) ॥ (see 1e)

०८ अपः समुद्राद् दिवम्

विश्वास-प्रस्तुतिः ...{Loading}...

अपः समुद्राद् दिवम् उद् वहन्ति
दिवस् पृथिवीम् अभि याः सृजन्ति ।
याभिर् ईशाना मरुतश् चरन्ति
ताः (…) ॥ (see 1e)

०९ या अमृतं बिभ्रति

विश्वास-प्रस्तुतिः ...{Loading}...

या अमृतं बिभ्रति या मधु प्रियं
या अगृभ्णन् ऋषयो देवसख्ये ।
याभिर् इन्द्रम् अत्य् अनयन्न् अरातीस्
ताः (…) ॥ (see 1e)

१० या जीवधन्या धनम्

विश्वास-प्रस्तुतिः ...{Loading}...

या जीवधन्या धनम् उत्पृणन्ति
देवायते दाशुषे मर्त्याय ।
यासां पयो अक्षितम् अक्षितानां
ताः (…) ॥ (see 1e)