००९

सर्वाष् टीकाः ...{Loading}...

०१ मरीचिर् आसीत् सा

विश्वास-प्रस्तुतिः ...{Loading}...

मरीचिर् आसीत् सा मनसः सम् अभवत् ।
सा प्रवीयत सा गर्भम् अधत्त ।
स गर्भो ऽवर्धत स वृद्धो ऽब्रवीज् जाया इति ।
तस्यै प्रजापतिर् अजुहोत् स्वधिष्ठाना चेति स्वधिचरणा चेति ।
प्रजापतिः ससृजे कपाले विजिहीथां मा मा सं ताप्तं महान्तं लोकम् अभिपश्यमाने (see Lopez 2010; Bhatt. prajāpate svasurjyo)
सो ऽजायत तस्य जातस्य द्यावापृथिवी पार्श्वे आस्तां समुद्रौ कुक्षी सूर्याचन्द्रमासाव् अक्षी विराट् शिरः ।
तस्माज् जातात् सर्वे पाप्मानो विजन्ते सर्वे अस्मात् पाप्मानो विजन्ते य एवं वेद ॥