००८

सर्वाष् टीकाः ...{Loading}...

०१ देवतल्पा देवकोशाः क्वेह

विश्वास-प्रस्तुतिः ...{Loading}...

देवतल्पा देवकोशाः क्वेह
तान् नः प्र ब्रूहि यदि तान् प्रवेत्थ ।
पृच्छामि त्वा गरगिरः कियन्तो
येभ्यो ऽग्निर् हव्यं वहति प्रजानन्
हुतं मर्त्यैर् अमृतो मर्त्येभ्यः ॥

०२ स्वप्ने य एकस्

विश्वास-प्रस्तुतिः ...{Loading}...

स्वप्ने य एकस् तमसा सहैत्य्
अङ्गानि गृह्णन् पुरुषस्य चक्षुः ।
स प्रातर् एति तमसा पुनः
स हा ज्योतिर् एति क्व सददेति ॥

०३ व्रतपतिम् अधिपतिं मधुकृता

विश्वास-प्रस्तुतिः ...{Loading}...

व्रतपतिम् अधिपतिं
मधुकृता मधुपतिम् ।
देवांस् त्वा सर्वान् पृच्छाम्य्
अहुतादश् च ते कति ॥

०४ को ऽन्तरिक्षात् परि

विश्वास-प्रस्तुतिः ...{Loading}...

को ऽन्तरिक्षात् परि पश्यतीदं
यस्माद् अग्र इन्द्रियं संबभूव ।
महत् स कस्माद् अभयं बिभाय
कस्य युक्तस्यास्या स्रक्वाल्
लोहितं परापतत् तत् क्वेह ॥

०५ इत्थम् एके प्रव्रजन्तीत्थम्

विश्वास-प्रस्तुतिः ...{Loading}...

इत्थम् एके प्रव्रजन्तीत्थम्
एके दक्षिणाः प्रत्यञ्च उदञ्चः
प्राञ्चो ऽभि व्रजन्त्य् एके ।
तेषां सर्वेषाम् इह सङ्गतिः साकं
स एको भूतश् चरति प्रजानन् ॥