००७

सर्वाष् टीकाः ...{Loading}...

०१ किम् इन्द्रस्य परिहितम्

विश्वास-प्रस्तुतिः ...{Loading}...

किम् इन्द्रस्य परिहितं किम् अग्नेः
किं विष्णोस् त्वष्टुर् वरुणस्य वासः ।
बृहस्पतेर् उत सोमस्य राज्ञः
किं वसाना मरुतो वर्षयन्तु ॥

०२ धातू रुद्रस्य किम्

विश्वास-प्रस्तुतिः ...{Loading}...

धातू रुद्रस्य किं वायोर्
वाजिनां वसनं महत् ।
किं पूषा ब्रह्मणस्पतिर्
विश्वे देवाश् च बिभ्रति ॥

०३ किं देवानां परिधानम्

विश्वास-प्रस्तुतिः ...{Loading}...

किं देवानां परिधानं समानं
यस्मिन्न् एषां सांमनस्यं बभूव ।
क्व रात्री निविशते क्वाहः क्वेदम्
अभ्रं भवति यत् समेति व्येति च ॥

०४ कतमेनापो दिवम् उद्वहन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

कतमेनापो दिवम् उद्वहन्ति
कः समेनोदयनेन नेता ।
वातस्य त्वा विद्युतां स्तनयित्नुर्
अपां पृच्छाम्य् अयनान्य् अग्नेः ॥

०५ पृच्छामि त्वा पृषतीम्

विश्वास-प्रस्तुतिः ...{Loading}...

पृच्छामि त्वा पृषतीं रोहिणीं च
वत्सं पृच्छामि सह मातरं त्वा ।
इन्द्रं त्वानु पृच्छामि साक्षात्
सभानां च सभापतिम् ॥

०६ को वयसाम् अदधान्

विश्वास-प्रस्तुतिः ...{Loading}...

को वयसाम् अदधान् नामानि कः पशूनां
कः सर्पाणां देवजना य आसन् ।
को ऽस्य जन्तोर् अदधाद् ब्रूहि नस् तत् ॥

०७ कति रोहाः स्वर्

विश्वास-प्रस्तुतिः ...{Loading}...

कति रोहाः स्वर् आ रोहयन्ति
येभी रोहितो दिवम् आरुरोह ।
राष्ट्रभृतः क्षत्रभृतो वसुभृतो
वसुदानवो वसुयवः ॥

०८ कश् चतुर्धा वि

विश्वास-प्रस्तुतिः ...{Loading}...

कश् चतुर्धा वि क्रमते महित्वा
कं रक्षन्ति कवयो ऽप्रमादम् ।
पुरुषं त्वानु पृच्छामि साक्षान्
मृत्योर् अङ्गानि कति तानि वेत्थ ॥

०९ यं सिषेव वृषभश्

विश्वास-प्रस्तुतिः ...{Loading}...

यं सिषेव वृषभश् चर्षणीणाम्
इन्द्रो वज्रम् अहीना स्पर्धमानः ।
येन वृत्रं मघवा संपिपेश
तं नः प्र ब्रूहि यदि तं प्रवेत्थ ॥

१० कः पर्वतानाम् अदधान्

विश्वास-प्रस्तुतिः ...{Loading}...

कः पर्वतानाम् अदधान् नामानि
को वनस्पतीनाम् अदधाद् ओषधीनाम् ।
पृच्छामि त्वा भुवनस्य नाभिं
गां त्वा पृच्छामि कतमानि साक्षात् ॥