००६

सर्वाष् टीकाः ...{Loading}...

०१ अध स्वनाद् उत

विश्वास-प्रस्तुतिः ...{Loading}...

अध स्वनाद् उत बिभ्युः पतत्रिणो
द्रप्सा यत् ते यवसादो व्य् अस्थिरन् ।
सुगं तत् ते तावकेभ्यो रथेभ्यो
ऽग्ने (…) ॥ (see 13.5.1d)

०२ त्वं मित्रस्य वरुणस्य

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं मित्रस्य वरुणस्य धास्य्
अवयातां मरुतां हेडो अद्भुतः ।
मृडा सु नो भूत्व् एषां मनः पुनर्
अग्ने (…) ॥ (see 13.5.1d)

०३ देवो देवानाम् असि

विश्वास-प्रस्तुतिः ...{Loading}...

देवो देवानाम् असि मित्रो अद्भुतो
वसुर् वसूनाम् असि चारुर् अध्वरे ।
शर्मन्त् स्याम तव सप्रथस्तमे
ऽग्ने (…) ॥ (see 13.5.1d)

०४ तत् ते भद्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

तत् ते भद्रं यत् समिद्धः स्वे दमे
सोमाहुतो जरसे मृडयत्तमः ।
दधासि रत्नं द्रविणं च दाशुषे
ऽग्ने सख्ये मा रिषामा वयं तव ॥

०५ यस्मै त्वं सुद्रविणो

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मै त्वं सुद्रविणो ददाशो
ऽनागास् त्वम् अदिते सर्वताता ।
यं भद्रेण शवसा चोदयासि
प्रजावन्तो राधसा ते स्याम ॥

०६ स त्वम् अग्ने

विश्वास-प्रस्तुतिः ...{Loading}...

स त्वम् अग्ने सौभगत्वस्य विद्वान्
अस्माकम् आयुः प्र तिरेह देव ।
तन् नो मित्रो वरुणो मामहन्ताम्
अदितिः सिन्धुः पृथिवी उत द्यौः ॥