००५

सर्वाष् टीकाः ...{Loading}...

०१ इमं स्तोमम् अर्हते

विश्वास-प्रस्तुतिः ...{Loading}...

इमं स्तोमम् अर्हते जातवेदसे
रथम् इव सं महेमा मनीषया ।
भद्रा हि नः प्रमतिर् अस्य सं सद्य्
अग्ने सख्ये मा रिषामा वयं तव ॥

०२ यस्मै त्वम् आयजसे

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मै त्वम् आयजसे स साधत्य्
अनर्वा क्षेति दधते सुवीर्यम् ।
स तूताव नैनम् अश्नोत्य् अंहतिर्
अग्ने (…) ॥ +++(see 1d)+++

०३ भरामेध्मं कृणवामा हवींषि

विश्वास-प्रस्तुतिः ...{Loading}...

भरामेध्मं कृणवामा हवींषि
ते चितयन्तः पर्वणा पर्वणा वयम् ।
जीवातवे प्रतरं साधया धियो
ऽग्ने (…) ॥ +++(see 1d)+++

०४ शकेम त्वा समिधम्

विश्वास-प्रस्तुतिः ...{Loading}...

शकेम त्वा समिधं साधया धियस्
त्वे देवा हविर् अदन्त्य् आहुतम् ।
त्वम् आदित्याँ आ वह तान् ह्य् ऊष्मस्य्
अग्ने (…) ॥ +++(see 1d)+++

०५ त्वम् अध्वर्युर् उत

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम् अध्वर्युर् उत होतासि पूर्व्यः
प्रशास्ता पोता जनुषा पुरोहितः ।
विश्वा विद्वाँ आर्त्विज्या धीर पुष्यस्य्
अग्ने (…) ॥ +++(see 1d)+++

०६ दिशां गोपा अस्य

विश्वास-प्रस्तुतिः ...{Loading}...

दिशां गोपा अस्य चरन्ति जन्तवो
द्विपाच् च यद् उत चतुष्पद् अक्तुभिः ।
चित्रः प्रकेत उषसो महाँ अस्य्
अग्ने (…) ॥ +++(see 1d)+++

०७ यो विश्वतः सुप्रतीकः

विश्वास-प्रस्तुतिः ...{Loading}...

यो विश्वतः सुप्रतीकः सदृङ्ङ् असि
दूरे चित् सन् तडिद् इवाति रोचसे ।
रात्र्याश् चिद् अन्धो अति देव पश्यस्य्
अग्ने (…) ॥ +++(see 1d)+++

०८ पूर्वो देवा भवतु

विश्वास-प्रस्तुतिः ...{Loading}...

पूर्वो देवा भवतु सुन्वतो रथो
ऽस्माकं शंसो अभ्य् अस्तु दूढ्यः ।
तद् आ जानीतोत पुष्यता वाचो
ऽग्ने (…) ॥ +++(see 1d)+++

०९ वधैर् दुःशंसां अप

विश्वास-प्रस्तुतिः ...{Loading}...

वधैर् दुःशंसाँ अप दूढ्यो जहि
दूरे वा ये अन्ति वा के चिद् अत्रिणः ।
अथा यज्ञाय गृणते सुगं कृध्य्
अग्ने (…) ॥ +++(see 1d)+++

१० यद् अयुक्था अरुषा

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अयुक्था अरुषा रोहिता रथे
वातजूता वृषभस्येव ते रवः ।
आद् इन्वसि वनिनो धूमकेतुना-
-अग्ने (…) ॥ +++(see 1d)+++