सर्वाष् टीकाः ...{Loading}...
०१ उदितः शतयोजनम् इन्द्रो
विश्वास-प्रस्तुतिः ...{Loading}...
उदितः शतयोजनम्
इन्द्रो वर्तयते रथम् ।
सायकं क्षुरवर्त्मानम् (emend. Lubotsky (“having a sharp track”, an epithet of Indra’s vajra- = ratha-); Bhatt. kṣuravartamānam)
अहेर् जातानि जम्भयन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उदितः शतयोजनम्
इन्द्रो वर्तयते रथम् ।
सायकं क्षुरवर्त्मानम् (emend. Lubotsky (“having a sharp track”, an epithet of Indra’s vajra- = ratha-); Bhatt. kṣuravartamānam)
अहेर् जातानि जम्भयन् ॥
सर्वाष् टीकाः ...{Loading}...
०२ दृढास आसन्न् अहयो
विश्वास-प्रस्तुतिः ...{Loading}...
दृढास आसन्न् अहयो
हता उदरसर्पिणः ।
पुच्छम् उद्वेष्टयन्तः
श्वा पिण्डम् अदन्न् इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
दृढास आसन्न् अहयो
हता उदरसर्पिणः ।
पुच्छम् उद्वेष्टयन्तः
श्वा पिण्डम् अदन्न् इव ॥
सर्वाष् टीकाः ...{Loading}...
०३ पापक पापरूपक किम्
विश्वास-प्रस्तुतिः ...{Loading}...
पापक पापरूपक
किं मे सखायम् आतुदः ।
न माम् अपश्य आगतं
सतीनं विषदूषणम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
पापक पापरूपक
किं मे सखायम् आतुदः ।
न माम् अपश्य आगतं
सतीनं विषदूषणम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ अहिजम्भाश् चरामसि मुष्काबर्हो
विश्वास-प्रस्तुतिः ...{Loading}...
अहिजम्भाश् चरामसि
मुष्काबर्हो गवाम् इव ।
पीला उप स्वजं हन्म
उप स्तम्भे पृदाक्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहिजम्भाश् चरामसि
मुष्काबर्हो गवाम् इव ।
पीला उप स्वजं हन्म
उप स्तम्भे पृदाक्वम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ ये के चेदम्
विश्वास-प्रस्तुतिः ...{Loading}...
ये के चेदम् उपासौषुर्
वातस्येव पृथग् यतः ।
अङ्गो नु सर्वे ब्रूत-
-आहेयम् अरसं विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये के चेदम् उपासौषुर्
वातस्येव पृथग् यतः ।
अङ्गो नु सर्वे ब्रूत-
-आहेयम् अरसं विषम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ त्रिद्धिसि ते निषदनम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्रिद्धिसि ते निषदनं (read tṛṇḍmasi?)
त्रिपुषि पाप ते गृहः ।
अच्छिन्नं त्वा वातो हन्त्य्
अच्छिन्नम् अभि वर्षति ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रिद्धिसि ते निषदनं (read tṛṇḍmasi?)
त्रिपुषि पाप ते गृहः ।
अच्छिन्नं त्वा वातो हन्त्य्
अच्छिन्नम् अभि वर्षति ॥
सर्वाष् टीकाः ...{Loading}...
०७ नाकुलेन भेषजेन तेनाहीन्
विश्वास-प्रस्तुतिः ...{Loading}...
नाकुलेन भेषजेन
तेनाहीन् जम्भयामसि ।
मांश्चतुर् नाम वृक्षकः
स एनान् अरसान् अकः ॥
मूलम् ...{Loading}...
मूलम् (GR)
नाकुलेन भेषजेन
तेनाहीन् जम्भयामसि ।
मांश्चतुर् नाम वृक्षकः
स एनान् अरसान् अकः ॥
सर्वाष् टीकाः ...{Loading}...
०८ असिताहे ऽरसं विषम्
विश्वास-प्रस्तुतिः ...{Loading}...
असिताहे ऽरसं विषम्
उभयोः सितस्य च । (Lopez svajasya)
अभिक्रन्दस्य या रोपीस्
ता इतो ऽप नयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
असिताहे ऽरसं विषम्
उभयोः सितस्य च । (Lopez svajasya)
अभिक्रन्दस्य या रोपीस्
ता इतो ऽप नयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०९ इदं पैद्वो अजायत
विश्वास-प्रस्तुतिः ...{Loading}...
इदं पैद्वो अजायत-
-इदम् अस्य विवर्तनम् ।
इदं कनिक्रदो मृगो
विषम् एति पराभवम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं पैद्वो अजायत-
-इदम् अस्य विवर्तनम् ।
इदं कनिक्रदो मृगो
विषम् एति पराभवम् ॥
सर्वाष् टीकाः ...{Loading}...
१० विषूचीना वाता वान्तु
विश्वास-प्रस्तुतिः ...{Loading}...
विषूचीना वाता वान्तु
विष्वग् वर्षन्तु वृष्टयः ।
विष्वग् विषं प्र मेह त्वं
शतधार इवावटः ॥
मूलम् ...{Loading}...
मूलम् (GR)
विषूचीना वाता वान्तु
विष्वग् वर्षन्तु वृष्टयः ।
विष्वग् विषं प्र मेह त्वं
शतधार इवावटः ॥