सर्वाष् टीकाः ...{Loading}...
०१ यं शपामो य
विश्वास-प्रस्तुतिः ...{Loading}...
यं शपामो य उ नः शपाति
यं द्विष्मो य उ द्वेषत् पिशाचः ।
क्रव्यादम् अग्ने महता वधेन
तम् अत्रापि प्र दह जातवेदः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यं शपामो य उ नः शपाति
यं द्विष्मो य उ द्वेषत् पिशाचः ।
क्रव्यादम् अग्ने महता वधेन
तम् अत्रापि प्र दह जातवेदः ॥
सर्वाष् टीकाः ...{Loading}...
०२ य आरेभे यस्य
विश्वास-प्रस्तुतिः ...{Loading}...
य आरेभे यस्य वा घास्य् अप्सरा
यः कृण्वेन संविदो यातुमावान् ।
उलूकयातुं भृमलो यस्य यातुस्
तम् (…) ॥ (see 1d)
मूलम् ...{Loading}...
मूलम् (GR)
य आरेभे यस्य वा घास्य् अप्सरा
यः कृण्वेन संविदो यातुमावान् ।
उलूकयातुं भृमलो यस्य यातुस्
तम् (…) ॥ (see 1d)
सर्वाष् टीकाः ...{Loading}...
०३ य आददे यस्य
विश्वास-प्रस्तुतिः ...{Loading}...
य आददे यस्य वा घासि पित्र्या
स्तेन श्वयातुर् उत संभिधेहिभिः ।
यः पताद् रोधनस्याधिदेवनं
क्रव्यात् पिशाचः क्रविषस् तितृप्सन्
उलूकयातुं भृमलो यस्य यातुस्
तम् (…) ॥ (see 1d)
मूलम् ...{Loading}...
मूलम् (GR)
य आददे यस्य वा घासि पित्र्या
स्तेन श्वयातुर् उत संभिधेहिभिः ।
यः पताद् रोधनस्याधिदेवनं
क्रव्यात् पिशाचः क्रविषस् तितृप्सन्
उलूकयातुं भृमलो यस्य यातुस्
तम् (…) ॥ (see 1d)
सर्वाष् टीकाः ...{Loading}...
०४ यः पुरुषेणेयते रथेन
विश्वास-प्रस्तुतिः ...{Loading}...
यः पुरुषेणेयते रथेन
क्रव्याद् यातुः पिशुनः पिशाचः ।
वैश्वानरेण सयुजा सूर्येण
तम् (…) ॥ (see 1d)
मूलम् ...{Loading}...
मूलम् (GR)
यः पुरुषेणेयते रथेन
क्रव्याद् यातुः पिशुनः पिशाचः ।
वैश्वानरेण सयुजा सूर्येण
तम् (…) ॥ (see 1d)
सर्वाष् टीकाः ...{Loading}...
०५ यो नो वलिम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो नो वलिं मृगयां यश् च नः कृषिं
परितिष्ठाद् यातुभिर् यश् च नः शपात् ।
अस्ता रुद्रः श्रथत्व् आयुर् अस्य
तम् (…) ॥ (see 1d)
मूलम् ...{Loading}...
मूलम् (GR)
यो नो वलिं मृगयां यश् च नः कृषिं
परितिष्ठाद् यातुभिर् यश् च नः शपात् ।
अस्ता रुद्रः श्रथत्व् आयुर् अस्य
तम् (…) ॥ (see 1d)
सर्वाष् टीकाः ...{Loading}...
०६ मा यातुमान् विदत
विश्वास-प्रस्तुतिः ...{Loading}...
मा यातुमान् विदत मृडितारम्
अलोका अस्मै प्रदिशो भवन्तु ।
सम् एनं तपतां रोदसी उभे
तम् अत्रापि प्र दह जतवेदः ॥
मूलम् ...{Loading}...
मूलम् (GR)
मा यातुमान् विदत मृडितारम्
अलोका अस्मै प्रदिशो भवन्तु ।
सम् एनं तपतां रोदसी उभे
तम् अत्रापि प्र दह जतवेदः ॥
सर्वाष् टीकाः ...{Loading}...
०७ ज्योतिष्मतीस् तपना याश्
विश्वास-प्रस्तुतिः ...{Loading}...
ज्योतिष्मतीस् तपना याश् च रोचना
प्रत्योषन्तीस् तन्वो यास् ते अग्ने ।
ताभिर् मे मर्माण्य् अभितो ददस्व
मा त्वा दभन् यातुधाना नृचक्षः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ज्योतिष्मतीस् तपना याश् च रोचना
प्रत्योषन्तीस् तन्वो यास् ते अग्ने ।
ताभिर् मे मर्माण्य् अभितो ददस्व
मा त्वा दभन् यातुधाना नृचक्षः ॥
सर्वाष् टीकाः ...{Loading}...
०८ आपो देवीः पिशाचानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
आपो देवीः पिशाचानाम्
अप नह्यन्त्व् आस्यम् ।
यथेमं ममात्मानम्
अनाधृष्य पुनः पतान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आपो देवीः पिशाचानाम्
अप नह्यन्त्व् आस्यम् ।
यथेमं ममात्मानम्
अनाधृष्य पुनः पतान् ॥
सर्वाष् टीकाः ...{Loading}...
०९ सदं पुष्पे सदम्
विश्वास-प्रस्तुतिः ...{Loading}...
सदं पुष्पे सदं फले
सदम् इन्द्राभिरक्षिते ।
सदा पिशाचा म्रियन्तां
मैषाम् उच् छेषि कश् चन
मूलम् ...{Loading}...
मूलम् (GR)
सदं पुष्पे सदं फले
सदम् इन्द्राभिरक्षिते ।
सदा पिशाचा म्रियन्तां
मैषाम् उच् छेषि कश् चन
सर्वाष् टीकाः ...{Loading}...
१० ये पतन्तो यातुधाना
विश्वास-प्रस्तुतिः ...{Loading}...
ये पतन्तो यातुधाना
दिवानक्तम् उपाचरान् ।
रात्री मा तेभ्यो रक्षत्व्
अह्न आत्मानं परि ददे ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये पतन्तो यातुधाना
दिवानक्तम् उपाचरान् ।
रात्री मा तेभ्यो रक्षत्व्
अह्न आत्मानं परि ददे ॥