०१९

सर्वाष् टीकाः ...{Loading}...

०१ सोमस्येन्द्रस्य वरुणस्य राज्ञो

विश्वास-प्रस्तुतिः ...{Loading}...

सोमस्येन्द्रस्य वरुणस्य राज्ञो
विष्णोर् बलेन सवितुः सवेन ।
अग्नेर् होत्रेण प्र णुदे पिशाचान्
यविष्ठस्य ब्रह्मणा जातवेदसः ॥

०२ क्रव्यादम् अग्ने रुधिरम्

विश्वास-प्रस्तुतिः ...{Loading}...

क्रव्यादम् अग्ने रुधिरं पिशाचं
मनोहनं जहि जातवेदः सहोभिः ।
श्रद्धेमं ब्रह्म जुषतां दक्षिणायुर्
यथा जीवात्य् अगदो भवाति ॥

०३ पुनस् त्वा प्राणः

विश्वास-प्रस्तुतिः ...{Loading}...

पुनस् त्वा प्राणः पुनर् ऐत्व् आयुः
पुनश् चक्षुः पुनर् ऐतु श्रोत्रम् ।
अपघ्ना नो दुरितानि विश्वा
शतं हिमाः सर्ववीरा मदेम ॥

०४ पुनर् अस्मै मनो

विश्वास-प्रस्तुतिः ...{Loading}...

पुनर् अस्मै मनो धेहि
पुनर् आयुः पुनर् बलम् ।
अपानाम् अस्य प्राणं च-
-अग्ने वर्धय जीवसे ॥

०५ चक्षुः सूर्य पुनर्

विश्वास-प्रस्तुतिः ...{Loading}...

चक्षुः सूर्य पुनर् देहि
वात प्राणं सम् ईरय ।
शरीरम् अस्य मांसान्य्
अग्ने सं भारया त्वम् ॥

०६ सम् आ भर

विश्वास-प्रस्तुतिः ...{Loading}...

सम् आ भर जातवेदो
यज् जग्धं यत् पराभृतम् ।
गात्राण्य् अस्य कल्पय
पुनर् आ प्यायताम् अयम् ॥

०७ सोमस्येव जातवेदो अंशुर्

विश्वास-प्रस्तुतिः ...{Loading}...

सोमस्येव जातवेदो
अंशुर् आ प्यायताम् अयम् ।
अग्ने विरप्सिनं मेध्यम्
अयक्ष्मं कृणु जीवसे ॥

०८ सं मा सिञ्चन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

सं मा सिञ्चन्तु मरुत इत्य् एका ॥

०९ वि मुञ्चामि ब्रह्मणा

विश्वास-प्रस्तुतिः ...{Loading}...

वि मुञ्चामि ब्रह्मणा जातवेदसम्
अग्निं होतारम् अजरं रथस्पृतम् ।
सर्वा देवानां जनिमानि विद्वान्
यथाभागं वहतु हव्यम् अग्निः ॥

१० ये पुमांसो यातुधान

विश्वास-प्रस्तुतिः ...{Loading}...

ये पुमांसो यातुधान
या स्त्रियो यातुधान्यः ।
बलवद् इन्द्रस्य वज्रेण-
-अवाचीनान् अव हन्मि तान् ॥