सर्वाष् टीकाः ...{Loading}...
०१ अग्नाव् अग्निश् चरति
विश्वास-प्रस्तुतिः ...{Loading}...
अग्नाव् अग्निश् चरति प्रविष्ट
ऋषीणां पुत्रो अधिराज एषः ।
तस्मै जुहोमि हविषा घृतेन
मा देवानां यूयवद् भागधेयम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्नाव् अग्निश् चरति प्रविष्ट
ऋषीणां पुत्रो अधिराज एषः ।
तस्मै जुहोमि हविषा घृतेन
मा देवानां यूयवद् भागधेयम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ युक्तो वह जातवेदः
विश्वास-प्रस्तुतिः ...{Loading}...
युक्तो वह जातवेदः पुरस्ताद्
अग्ने विद्धि क्रियमाणं यथेदम् ।
त्वं भिषग् भेषजस्यापि कर्ता
त्वया गाम् अश्वं पुरुषं सनेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
युक्तो वह जातवेदः पुरस्ताद्
अग्ने विद्धि क्रियमाणं यथेदम् ।
त्वं भिषग् भेषजस्यापि कर्ता
त्वया गाम् अश्वं पुरुषं सनेम ॥
सर्वाष् टीकाः ...{Loading}...
०३ तथा त्वम् अग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
तथा त्वम् अग्ने कृणु जातवेदो
ऽनेन विद्वान् हविषा यविष्ठ ।
पिशाचो अस्य यतमो जघास
यथा सो अस्य परिधिष् पताति ॥
मूलम् ...{Loading}...
मूलम् (GR)
तथा त्वम् अग्ने कृणु जातवेदो
ऽनेन विद्वान् हविषा यविष्ठ ।
पिशाचो अस्य यतमो जघास
यथा सो अस्य परिधिष् पताति ॥
सर्वाष् टीकाः ...{Loading}...
०४ यो ऽस्य दिदेव
विश्वास-प्रस्तुतिः ...{Loading}...
यो ऽस्य दिदेव यतमो जघास
यथा सो अस्य परिधिष् पताति ।
तथा त्वम् अग्ने कृणु जातवेदो
विश्वेभिर् देवैः सह संविदानः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो ऽस्य दिदेव यतमो जघास
यथा सो अस्य परिधिष् पताति ।
तथा त्वम् अग्ने कृणु जातवेदो
विश्वेभिर् देवैः सह संविदानः ॥
सर्वाष् टीकाः ...{Loading}...
०५ अक्ष्यौ नि विध्य
विश्वास-प्रस्तुतिः ...{Loading}...
अक्ष्यौ नि विध्य हृदयं नि विध्य
जिह्वां नि तृन्धि प्र दतः शृणीहि ।
पिशाचो अस्य यतमो जघास-
-अग्ने यविष्ठ प्रति तं शृणीहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अक्ष्यौ नि विध्य हृदयं नि विध्य
जिह्वां नि तृन्धि प्र दतः शृणीहि ।
पिशाचो अस्य यतमो जघास-
-अग्ने यविष्ठ प्रति तं शृणीहि ॥
सर्वाष् टीकाः ...{Loading}...
०६ यद् अस्य हृतम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अस्य हृतं विहृतं यत् पराभृतम्
आत्मनो जग्धम् उत यत् पिशाचैः ।
तद् अग्ने विद्वान् पुनर् आ भर
त्वं शरीरे प्राणम् असुम् एरयास्य ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अस्य हृतं विहृतं यत् पराभृतम्
आत्मनो जग्धम् उत यत् पिशाचैः ।
तद् अग्ने विद्वान् पुनर् आ भर
त्वं शरीरे प्राणम् असुम् एरयास्य ॥
सर्वाष् टीकाः ...{Loading}...
०७ अपां त्वा पाने
विश्वास-प्रस्तुतिः ...{Loading}...
अपां त्वा पाने यतमो ददम्भ-
-ओदने मन्थे यदि वोत लेहे ।
तद् आत्मना प्रजया पिशाचा
वि यातयन्ताम् अगदो ऽयम् अस्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपां त्वा पाने यतमो ददम्भ-
-ओदने मन्थे यदि वोत लेहे ।
तद् आत्मना प्रजया पिशाचा
वि यातयन्ताम् अगदो ऽयम् अस्तु ॥
सर्वाष् टीकाः ...{Loading}...
०८ क्षीरे त्वा मांसे
विश्वास-प्रस्तुतिः ...{Loading}...
क्षीरे त्वा मांसे यतमो ददम्भ-
-अकृष्टपच्ये अशने धान्ये यः ।
तद् आत्मना प्रजया पिशाचा
वि यातयन्ताम् अगदो ऽयम् अस्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
क्षीरे त्वा मांसे यतमो ददम्भ-
-अकृष्टपच्ये अशने धान्ये यः ।
तद् आत्मना प्रजया पिशाचा
वि यातयन्ताम् अगदो ऽयम् अस्तु ॥
सर्वाष् टीकाः ...{Loading}...
०९ आमे सुपक्वे शबले
विश्वास-प्रस्तुतिः ...{Loading}...
आमे सुपक्वे शबले विपक्वे
य इमं पिशाचो अशने ददम्भ ।
तम् इन्द्रो वाजी वज्रेण हन्तु
भिनत्तु सोमः शिरो अस्य धृष्णुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आमे सुपक्वे शबले विपक्वे
य इमं पिशाचो अशने ददम्भ ।
तम् इन्द्रो वाजी वज्रेण हन्तु
भिनत्तु सोमः शिरो अस्य धृष्णुः ॥
सर्वाष् टीकाः ...{Loading}...
१० दिवा त्वा नक्तम्
विश्वास-प्रस्तुतिः ...{Loading}...
दिवा त्वा नक्तं यतमो ददम्भ
क्रव्याद् यातुः शयने पिशाचः ।
तद् अग्ने विद्वान् प्र दह क्षिणीह्य्
अप्य् एनं धेहि निरृतेर् उपस्थे ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिवा त्वा नक्तं यतमो ददम्भ
क्रव्याद् यातुः शयने पिशाचः ।
तद् अग्ने विद्वान् प्र दह क्षिणीह्य्
अप्य् एनं धेहि निरृतेर् उपस्थे ॥