०१७

सर्वाष् टीकाः ...{Loading}...

०१ शं नः सत्यस्य

विश्वास-प्रस्तुतिः ...{Loading}...

शं नः सत्यस्य पतयो भवन्तु
शं नो अर्वन्तः शम् उ सन्तु गावः ।
शं न ऋभवः सुकृतः सुहस्ताः
शं नो भवन्तु पितरो हवेषु ॥

०२ शं नो देवा

विश्वास-प्रस्तुतिः ...{Loading}...

शं नो देवा विश्वदेवा भवन्तु
शं सरस्वती सह धीभिर् अस्तु ।
शम् अभिषाचः शम् उ रातिषाचः
शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥

०३ शं नो अज

विश्वास-प्रस्तुतिः ...{Loading}...

शं नो अज एकपाद् देवो अस्तु
शम् अहिर् बुध्न्यः शं समुद्रः ।
शं नो अपां नापत् पेरुर् अस्तु
शं नः पृश्निर् भवतु देवगोपाः ॥

०४ आदित्या रुद्रा वसवो

विश्वास-प्रस्तुतिः ...{Loading}...

आदित्या रुद्रा वसवो जुषन्ताम्
इदं ब्रह्म क्रियमाणं नवीयः ।
शृण्वन्तु नो दिव्याः पार्थिवासो
गोजाता उत ये यज्ञियासः ॥

०५ ये देवानाम् ऋत्विजो

विश्वास-प्रस्तुतिः ...{Loading}...

ये देवानाम् ऋत्विजो यज्ञियासो
मनोर् यजत्रा अमृता ऋतज्ञाः ।
ते नो रासन्ताम् उरुगायम् अद्य
यूयं पात स्वस्तिभिः सदा नः ॥

०६ तद् अस्तु मित्रावरुणा

विश्वास-प्रस्तुतिः ...{Loading}...

तद् अस्तु मित्रावरुणा तद् अग्ने
शं योर् अस्मभ्यम् इदम् अस्तु शस्तम् ।
अशीमहि गातुम् उत प्रतिष्ठां
नमो दिवे बृहते सादनाय ॥