सर्वाष् टीकाः ...{Loading}...
०१ शं न इन्द्राग्नी
विश्वास-प्रस्तुतिः ...{Loading}...
शं न इन्द्राग्नी भवताम् अवोभिः
शं न इन्द्रावरुणा रातहव्या ।
शम् इन्द्रासोमा स विताय शं योः
शं न इन्द्रापूषणा वाजसातौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
शं न इन्द्राग्नी भवताम् अवोभिः
शं न इन्द्रावरुणा रातहव्या ।
शम् इन्द्रासोमा स विताय शं योः
शं न इन्द्रापूषणा वाजसातौ ॥
सर्वाष् टीकाः ...{Loading}...
०२ शं नो भगः
विश्वास-प्रस्तुतिः ...{Loading}...
शं नो भगः शम् उ नः शंसो अस्तु
शं नः पुरुन्धिः शम् उ सन्तु रायः ।
शं नः सत्यस्य सूयमस्य शंसः
शं नो अर्यमा पुरुजातो अस्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
शं नो भगः शम् उ नः शंसो अस्तु
शं नः पुरुन्धिः शम् उ सन्तु रायः ।
शं नः सत्यस्य सूयमस्य शंसः
शं नो अर्यमा पुरुजातो अस्तु ॥
सर्वाष् टीकाः ...{Loading}...
०३ शं नो धाता
विश्वास-प्रस्तुतिः ...{Loading}...
शं नो धाता शम् उ धर्ता नो अस्तु
शं न उरूची भवतु स्वधाभिः ।
शं रोदसी बृहती शं नो अद्रिः
शं नो देवानां सुहवानि सन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
शं नो धाता शम् उ धर्ता नो अस्तु
शं न उरूची भवतु स्वधाभिः ।
शं रोदसी बृहती शं नो अद्रिः
शं नो देवानां सुहवानि सन्तु ॥
सर्वाष् टीकाः ...{Loading}...
०४ शं नो अग्निर्
विश्वास-प्रस्तुतिः ...{Loading}...
शं नो अग्निर् ज्योतिरनीको अस्तु
शं मित्रावरुणाव् अश्विना शम् ।
शं नः सुकृतां सुकृतानि सन्तु
शं न इषिरो अभि वातु वातः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शं नो अग्निर् ज्योतिरनीको अस्तु
शं मित्रावरुणाव् अश्विना शम् ।
शं नः सुकृतां सुकृतानि सन्तु
शं न इषिरो अभि वातु वातः ॥
सर्वाष् टीकाः ...{Loading}...
०५ शं नो द्यावापृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
शं नो द्यावापृथिवी पूर्वहूतौ
शम् अन्तरिक्षं दृशये नो अस्तु ।
शं न ओषधीर् वनिनो भवन्तु
शं नो रजसः पतिर् अस्तु जिष्णुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शं नो द्यावापृथिवी पूर्वहूतौ
शम् अन्तरिक्षं दृशये नो अस्तु ।
शं न ओषधीर् वनिनो भवन्तु
शं नो रजसः पतिर् अस्तु जिष्णुः ॥
सर्वाष् टीकाः ...{Loading}...
०६ शं न इन्द्रो
विश्वास-प्रस्तुतिः ...{Loading}...
शं न इन्द्रो वसुभिर् देवो अस्तु
शम् आदित्येभिर् वरुणः सुशंसः ।
शं नो रुद्रो रुद्रेभिर् जलाषः
शं नस् त्वष्टा ग्नाभिर् इह शृणोतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
शं न इन्द्रो वसुभिर् देवो अस्तु
शम् आदित्येभिर् वरुणः सुशंसः ।
शं नो रुद्रो रुद्रेभिर् जलाषः
शं नस् त्वष्टा ग्नाभिर् इह शृणोतु ॥
सर्वाष् टीकाः ...{Loading}...
०७ शं नः सोमो
विश्वास-प्रस्तुतिः ...{Loading}...
शं नः सोमो भवतु ब्रह्म शं नः
शं नो ग्रावाणः शम् उ सन्तु यज्ञाः ।
शं नः स्वरूणां मितयो भवन्तु
शं नः प्रस्वः शम् व् अस्तु वेदिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शं नः सोमो भवतु ब्रह्म शं नः
शं नो ग्रावाणः शम् उ सन्तु यज्ञाः ।
शं नः स्वरूणां मितयो भवन्तु
शं नः प्रस्वः शम् व् अस्तु वेदिः ॥
सर्वाष् टीकाः ...{Loading}...
०८ शं नः सूर्य
विश्वास-प्रस्तुतिः ...{Loading}...
शं नः सूर्य उरुचक्षा उद् एतु
शं नो भवन्तु प्रदिशश् चतस्रः ।
शं नः पर्वता ध्रुवयो भवन्तु
शं नः सिन्धवः शम् उ सन्त्व् आपः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शं नः सूर्य उरुचक्षा उद् एतु
शं नो भवन्तु प्रदिशश् चतस्रः ।
शं नः पर्वता ध्रुवयो भवन्तु
शं नः सिन्धवः शम् उ सन्त्व् आपः ॥
सर्वाष् टीकाः ...{Loading}...
०९ शं नो अदितिर्
विश्वास-प्रस्तुतिः ...{Loading}...
शं नो अदितिर् भवतु व्रतेभिः
शं नो भवन्तु मरुतः स्वर्काः ।
शं नो विष्णुः शम् उ पूषा नो अस्तु
शं नो भवित्रं शम् व् अस्तु वायुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शं नो अदितिर् भवतु व्रतेभिः
शं नो भवन्तु मरुतः स्वर्काः ।
शं नो विष्णुः शम् उ पूषा नो अस्तु
शं नो भवित्रं शम् व् अस्तु वायुः ॥
सर्वाष् टीकाः ...{Loading}...
१० शं नो देवः
विश्वास-प्रस्तुतिः ...{Loading}...
शं नो देवः सविता त्रायमानः
शं नो भवन्तूषसो विभातीः ।
शं नः पर्जन्यो भवतु प्रजाभ्यः
शं नः क्षेत्रस्य पतिर् अस्तु शम्भुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शं नो देवः सविता त्रायमानः
शं नो भवन्तूषसो विभातीः ।
शं नः पर्जन्यो भवतु प्रजाभ्यः
शं नः क्षेत्रस्य पतिर् अस्तु शम्भुः ॥