०१४

सर्वाष् टीकाः ...{Loading}...

०१ यो जात एव

विश्वास-प्रस्तुतिः ...{Loading}...

यो जात एव प्रथमो मनस्वान्
देवो देवान् क्रतुना पर्यभूषत् ।
यस्य शुष्माद् रोदसी अभ्यसेतां
नृम्णस्य मह्ना स जनास इन्द्रः ॥

०२ यः पृथिवीं व्यधमानाम्

विश्वास-प्रस्तुतिः ...{Loading}...

यः पृथिवीं व्यधमानाम् अदृंहद्
यः पर्वतान् प्रकुपिताꣳ अरम्णात् ।
यो अन्तरिक्षं विममे वरीयो
यो द्याम् अस्तभ्नात् स (जनास इन्द्रः) ॥

०३ यो हत्वाहिम् अरिणात्

विश्वास-प्रस्तुतिः ...{Loading}...

यो हत्वाहिम् अरिणात् सप्त सिन्धून्
यो गा उदाजद् अपधा वलस्य ।
यो अश्मनोर् अन्तर् अग्निं जजान
संवृक् समत्सु स (जनास इन्द्रः) ॥

०४ येनेमा विश्वा च्यवना

विश्वास-प्रस्तुतिः ...{Loading}...

येनेमा विश्वा च्यवना कृतानि
यो दासं वर्णम् अधरं गुहाकः ।
श्वघ्नीव यो जिगीवाꣳल् लक्षम् आदद्
अर्यः पुष्टानि स (…) ॥

०५ यं स्मा पृच्छन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

यं स्मा पृच्छन्ति कुह सेति घोरम्
उतेम् आहुर् नैषो अस्तीत्य् एनम् ।
सो अर्यः पुष्टीर् विज इवा मिनाति
श्रद् अस्मै धत्त स (…) ॥

०६ यो रध्रस्य चोदिता

विश्वास-प्रस्तुतिः ...{Loading}...

यो रध्रस्य चोदिता यः कृशस्य
यो ब्रह्मणो नाधमानस्य कीरेः ।
युक्तग्राव्णो यो ऽविता सुशिप्रः
सुतसोमस्य स (…) ॥

०७ यस्याश्वासः प्रदिशि यस्य

विश्वास-प्रस्तुतिः ...{Loading}...

यस्याश्वासः प्रदिशि यस्य गावो
यस्य ग्रामा यस्य विश्वे रथासः ।
यः सूर्यं य उषसं जजान
यो अपां नेता स (…) ॥

०८ यं क्रन्दसी संयती

विश्वास-प्रस्तुतिः ...{Loading}...

यं क्रन्दसी संयती विह्वयते
परे ऽवर उभया अमित्राः ।
समानं चिद् रथम् आतस्थिवांसा
नाना हवेते स (…) ॥

०९ यस्मान् न र्ते

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मान् न र्ते विजयन्ते जनासो
यं युध्यमाना अवसे हवन्ते ।
यो विश्वस्य प्रतिमानं बभूव
यो अच्युतच्युत् स (…) ॥

१० यः शश्वतो मह्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यः शश्वतो मह्य् एनो दधानान्
अबुध्यमानान् सर्वा जघान ।
यः शर्धते नानुददाति शृध्यां
यो दस्योर् हन्ता स (…) ॥