०१३

सर्वाष् टीकाः ...{Loading}...

०१ दासपत्नीर् अहिगोपा अतिष्ठन्

विश्वास-प्रस्तुतिः ...{Loading}...

दासपत्नीर् अहिगोपा अतिष्ठन्
निरुद्धा आपः पणिनेव गावः ।
अपां बिलम् अपिहितं यद् आसीद्
वृत्रं जघन्वाँ अप तद् ववार ॥

०२ अश्व्यो वारो अभवस्

विश्वास-प्रस्तुतिः ...{Loading}...

अश्व्यो वारो अभवस् तद् इन्द्र
सृके यत् त्वा प्रत्यहन् देव एकः ।
अजयो गा अजयः शूर सोमम्
अवासृजः सर्तवे सप्त सिन्धून् ॥

०३ नास्मै विद्युन् न

विश्वास-प्रस्तुतिः ...{Loading}...

नास्मै विद्युन् न तन्यतुः शिषेध
न याम्यहम् अकिरद् ध्रादुनिं च
इन्द्रश् च यद् युयुधाते अहिश् च-
-उतापरीभ्यो मघवा वि जिग्ये ॥

०४ अहेर् यातारं कम्

विश्वास-प्रस्तुतिः ...{Loading}...

अहेर् यातारं कम् अपश्य इन्द्र
हृदि यत् ते जघ्नुषो भीर् अगच्छत् ।
नव च यन् नवतिं च स्रवन्तीः
श्येनो न भीतो अतरो रजांसि ॥

०५ इन्द्रो यातो ऽवसितस्य

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो यातो ऽवसितस्य राजा
शमस्य च शृङ्गिणो वज्रबाहुः ।
सेद् उ राजा क्षयति चर्षणीणाम्
अरान् न नेमिः परि ता बभूव ॥