०११

सर्वाष् टीकाः ...{Loading}...

०१ पदेपदे कल्पयन्त आदित्याङ्गिरसो

विश्वास-प्रस्तुतिः ...{Loading}...

पदेपदे कल्पयन्त
आदित्याङ्गिरसो यजुः ।
ईडाना अन्व् आयन् वशान्
तदैडं सामोच्यते ॥

०२ वशेडा वशानुमतिर् वशाम्

विश्वास-प्रस्तुतिः ...{Loading}...

वशेडा वशानुमतिर्
वशाम् आहुः सरस्वतीम् ।
विराजं मन्यन्ते वशां
वाग् वशा पृथिवी वशा ॥

०३ वशा देष्ट्री सिनीवाली

विश्वास-प्रस्तुतिः ...{Loading}...

वशा देष्ट्री सिनीवाली
वशोषा निरृतिर् वशा ।
वशायां मृत्युम् अविशद्
आ मृत्युम् अविशद् वशा ॥

०४ अग्निर् वाग् उदकम्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निर् वाग् उदकं चक्षुर्
मनो वातो वशी वशा ।
तन्वं को अस्यास् तं वेद
ययोदक्रामद् एकया ॥

०५ यां चक्षुषा मनसा

विश्वास-प्रस्तुतिः ...{Loading}...

यां चक्षुषा मनसा संविदाना
हृदा पश्यन्ति कवयो मनीषिनः ।
तस्याः प्रजाधिपतिः पशूनां
वशा राज्ञा नांतवेषा सृष्टिः ॥

०६ को वशाया ऊधो

विश्वास-प्रस्तुतिः ...{Loading}...

को वशाया ऊधो वेद
क उल्बं च जरायु च ।
स्तनान् अस्याः को वेद
क इ तद् वेद यद् दुहे ॥

०७ अहम् अस्या ऊधो

विश्वास-प्रस्तुतिः ...{Loading}...

अहम् अस्या ऊधो वेद-
-अहम् उल्बं च जरायु च ।
स्तनान् अस्या अहं वेद-
-अथो तद् वेद यद् दुहे ॥

०८ नैनां अहं रक्षेयम्

विश्वास-प्रस्तुतिः ...{Loading}...

नैनाँ अहं रक्षेयं +++(Bhatt. naināṃ)+++
दद्याम् एव स्याच् च मे ।
स्तना ह्य् अस्या अहं वेद
क्षीरम् उल्बं च जरायु च ॥

०९ कृत्तिर् योनिर् अधिवासो

विश्वास-प्रस्तुतिः ...{Loading}...

कृत्तिर् योनिर् अधिवासो जरायु
पाण्डम् उल्बं नाभिर् उष्णीषम् अस्याः ।
आ जरसं धयतु मातरं वशी
ब्रह्मभिः क्ल्̥प्तः स ह्य् अस्य बन्धुः ॥