००९

सर्वाष् टीकाः ...{Loading}...

०१ यो वै वशाम्

विश्वास-प्रस्तुतिः ...{Loading}...

यो वै वशां देवयते
पचते वाहुताममा ।
मृत्योः स बध्यते पाशे
देवानां च यमस्य च ॥

०२ दक्षिणां सूर्याम् अदितिम्

विश्वास-प्रस्तुतिः ...{Loading}...

दक्षिणां सूर्याम् अदितिं वदन्ति
वशां वाचं कल्पयन्तः समानीम् ।
सप्त ऋषयो नि दधुर् वाचम् एतां
सरस्वती मृडया कल्पयन्तः ॥

०३ इमां वशां वाचम्

विश्वास-प्रस्तुतिः ...{Loading}...

इमां वशां वाचम् आहुर् वशेति
तिस्रो वशा अतिहिताः सधस्थे ।
तासाम् अग्नौ मनसैकां जुहोमि
तां नः स्वाद्वीं भूतपतिः कृणोतु ॥

०४ स्वद्वीं न एताम्

विश्वास-प्रस्तुतिः ...{Loading}...

स्वद्वीं न एतां सविता कृणोतु
स्वद्वीं न एतां जनिता पशूनाम् ।
जुहुध्य् अग्ने वयुनानि विद्वांस्
तां नः स्वाद्वीं भूतपतिः कृणोतु ॥

०५ इदं तृतीयं वशिनी

विश्वास-प्रस्तुतिः ...{Loading}...

इदं तृतीयं वशिनी वशाशि
महिम्ने त्वा गर्भो अभ्य् आ विवेश ।
उशती त्वम् उशतो गच्छ देवान्
सत्याः सन्तु यजमानस्य कामाः ॥

०६ इयम् अम्भसा वाजसुतस्तभे

विश्वास-प्रस्तुतिः ...{Loading}...

इयम् अम्भसा वाजसुतस्तभे गौर्
यस्याम् इन्द्रो वरुणस् तित्विषाते ।
नृम्णम् अनृम्णं सचत इयम् आगन्
धीरः पशुर् वीर्यम् आ विवेश ॥

०७ वशा ससूव स्थविरम्

विश्वास-प्रस्तुतिः ...{Loading}...

वशा ससूव स्थविरं विपश्चितं
वशा ससूव वष्कयं दिविस्पृशन् ।
वशा ससूव तरुणं विभाजने
वशा ससूव संजितं धनानाम् ॥

०८ यत् प्रोक्षणम् अपतद्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् प्रोक्षणम् अपतद् बर्हिषस् परि
दक्षिणतो वेद्या इन्द्रियावत् ।
वशा संभूत्याधि गौर् अमीमेत्
तस्याः पीवो अभवद् वर्मवाससम् ॥

०९ नमो महिम्न उत

विश्वास-प्रस्तुतिः ...{Loading}...

नमो महिम्न उत चक्षुषे वां
वशर्षभो मनसा तत् कृणोमि ।
देवाँ अपीतं पथिभिः शिवेभिर्
मा नो हिंसिष्टं हरसा दैव्येन ॥

१० वशाम् अस्कन्दद् ऋषभस्

विश्वास-प्रस्तुतिः ...{Loading}...

वशाम् अस्कन्दद् ऋषभस्
तिष्ठन्तीम् अधि तन्तुषु ।
गर्भं तम् अद्य को वेद
यतिधा सो अकल्पयत् ॥