००८

सर्वाष् टीकाः ...{Loading}...

०१ अपेतेतो अप्सरसो गन्धर्वा

विश्वास-प्रस्तुतिः ...{Loading}...

अपेतेतो अप्सरसो
गन्धर्वा यत्र वो गृहाः ।
तीक्ष्णशृङ्ग्य् अराटक्य्
अजशृङ्गी व्य् ऋषतु ॥

०२ जाया वेद वो

विश्वास-प्रस्तुतिः ...{Loading}...

जाया वेद वो अप्सरसो
गन्धर्वाः पतयो यूयम् ।
अप क्रामत् पुरुषाद्
अमर्त्या मर्त्यं मा सचध्वम् ॥

०३ भीमा इन्द्रस्य हेतयः

विश्वास-प्रस्तुतिः ...{Loading}...

भीमा इन्द्रस्य हेतयः
शतमृष्टीर् अयस्मै ।
ताभिर् गन्धर्वान् अभैद्यान्
अवकादान् व्य् ऋषतु ॥

०४ अवकादां अभिशोचो भित्सु

विश्वास-प्रस्तुतिः ...{Loading}...

अवकादाँ अभिशोचो
भित्सु द्योतयमामकान् ।
गन्धर्वान् सर्वान् ओषधे
प्र णुदस्व परा णय ॥

०५ उन्मादयन्तीर् अभिशोचयन्तीर् मुनिम्

विश्वास-प्रस्तुतिः ...{Loading}...

उन्मादयन्तीर् अभिशोचयन्तीर्
मुनिं नग्नं कृण्वतीर् मोघहासिनम् ।
अप्सरसो रघटो याश् चरन्ति
गन्धर्वपत्नीर् अजशृङ्ग्य् आशये ॥

०६ श्वेतीकृण्वानः पुरुषं विश्वा

विश्वास-प्रस्तुतिः ...{Loading}...

श्वेतीकृण्वानः पुरुषं
विश्वा रूपाणि बोभुवत् ।
श्वेवैकं कपिर् इवैकं
कुमारः सर्वकेशकः ।
प्रियो दृशे भूत्वा
गन्धर्वः सचते स्त्रियं
तम् इतो नाशयामसि ॥