सर्वाष् टीकाः ...{Loading}...
०१ जायस्वाग्ने ऽश्वत्थाद् अस्मै
विश्वास-प्रस्तुतिः ...{Loading}...
जायस्वाग्ने ऽश्वत्थाद्
अस्मै क्षत्रायौजसे ।
उग्र आपतिकाद् अधि
यो वृक्षाꣳ अधिरोहति ॥ (Bhatt. vṛkṣāṃ)
मूलम् ...{Loading}...
मूलम् (GR)
जायस्वाग्ने ऽश्वत्थाद्
अस्मै क्षत्रायौजसे ।
उग्र आपतिकाद् अधि
यो वृक्षाꣳ अधिरोहति ॥ (Bhatt. vṛkṣāṃ)
सर्वाष् टीकाः ...{Loading}...
०२ विबाधं चित् सहमानम्
विश्वास-प्रस्तुतिः ...{Loading}...
विबाधं चित् सहमानं
त्वाम् अग्ने जनयामसि ।
जातां जनिष्यमाणां
सपत्नान् प्र णुदस्व मे ॥
मूलम् ...{Loading}...
मूलम् (GR)
विबाधं चित् सहमानं
त्वाम् अग्ने जनयामसि ।
जातां जनिष्यमाणां
सपत्नान् प्र णुदस्व मे ॥
सर्वाष् टीकाः ...{Loading}...
०३ अश्वत्थस्यारोहस्य वृक्षस्यारणयः कृताः
विश्वास-प्रस्तुतिः ...{Loading}...
अश्वत्थस्यारोहस्य
वृक्षस्यारणयः कृताः ।
ततो जाताय ते ऽजनि
वीडुजम्भाग्निर् अग्नये ॥
मूलम् ...{Loading}...
मूलम् (GR)
अश्वत्थस्यारोहस्य
वृक्षस्यारणयः कृताः ।
ततो जाताय ते ऽजनि
वीडुजम्भाग्निर् अग्नये ॥
सर्वाष् टीकाः ...{Loading}...
०४ तं जातं जातवेदसम्
विश्वास-प्रस्तुतिः ...{Loading}...
तं जातं जातवेदसम्
आ दधाम्य् अमर्त्यम् ।
पावकम् अग्निम् ऊतये
शुचिमन्तं विषासहिम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
तं जातं जातवेदसम्
आ दधाम्य् अमर्त्यम् ।
पावकम् अग्निम् ऊतये
शुचिमन्तं विषासहिम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ उत् तनुष्व धनुः
विश्वास-प्रस्तुतिः ...{Loading}...
उत् तनुष्व धनुः प्रति मुञ्चस्व वर्म
जहि शत्रून् वीर्या ते कृणोमि ।
अत्र रध्यन्तु य उ ते सपत्नास्
त्वम् एकवृषो भव ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत् तनुष्व धनुः प्रति मुञ्चस्व वर्म
जहि शत्रून् वीर्या ते कृणोमि ।
अत्र रध्यन्तु य उ ते सपत्नास्
त्वम् एकवृषो भव ॥
सर्वाष् टीकाः ...{Loading}...
०६ वृषभं त्वा सजातानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
वृषभं त्वा सजातानां
सपत्नानां विषासहिम् ।
हन्तारं शत्रूणां कृण्मो
विराजं गोपतिं गवाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वृषभं त्वा सजातानां
सपत्नानां विषासहिम् ।
हन्तारं शत्रूणां कृण्मो
विराजं गोपतिं गवाम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ समुद्रो ऽस्य् अपाम्
विश्वास-प्रस्तुतिः ...{Loading}...
समुद्रो ऽस्य् अपां ज्येष्ठ
इन्द्रो देवेषु वृत्रहा ।
व्याघ्रं सिंहं त्वा कृण्मो
दमितारं पृतन्यताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
समुद्रो ऽस्य् अपां ज्येष्ठ
इन्द्रो देवेषु वृत्रहा ।
व्याघ्रं सिंहं त्वा कृण्मो
दमितारं पृतन्यताम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ इन्द्र इव दस्यून्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र इव दस्यून् अधरान् कृणुष्व-
-उग्र इव वातो विशृणन् सपत्नान् ।
ते शुष्यन्त्व् अप दावाद् इव-
-अग्नेः पर्यवीवरथा एनान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्र इव दस्यून् अधरान् कृणुष्व-
-उग्र इव वातो विशृणन् सपत्नान् ।
ते शुष्यन्त्व् अप दावाद् इव-
-अग्नेः पर्यवीवरथा एनान् ॥
सर्वाष् टीकाः ...{Loading}...
०९ सं वृश्चैनांस् ते
विश्वास-प्रस्तुतिः ...{Loading}...
सं वृश्चैनांस् ते शुष्यन्तु
वृश्चैनान् मोपजां शिषः ।
सपत्नान् सर्वांस् तृढ्वा
त्वम् एकवृषो भव ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं वृश्चैनांस् ते शुष्यन्तु
वृश्चैनान् मोपजां शिषः ।
सपत्नान् सर्वांस् तृढ्वा
त्वम् एकवृषो भव ॥
सर्वाष् टीकाः ...{Loading}...
१० त्वम् उग्रस् त्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वम् उग्रस् त्वं बली
त्वम् एधि विवाचनम् ।
त्वं पृतन्यतः पूर्वः
सपत्नाꣳ अव दूनुष्व ॥ (Bhatt. sapatnāṃ)
मूलम् ...{Loading}...
मूलम् (GR)
त्वम् उग्रस् त्वं बली
त्वम् एधि विवाचनम् ।
त्वं पृतन्यतः पूर्वः
सपत्नाꣳ अव दूनुष्व ॥ (Bhatt. sapatnāṃ)