००३

सर्वाष् टीकाः ...{Loading}...

०१ यथेयम् उर्वी पृथिवी

विश्वास-प्रस्तुतिः ...{Loading}...

यथेयम् उर्वी पृथिवी
वृद्धैव गर्भम् आदधे ।
एवा दधामि ते गर्भं
तस्मै त्वाम् अवसे हुवे ॥

०२ पर्वताद् दिवो योनेर्

विश्वास-प्रस्तुतिः ...{Loading}...

पर्वताद् दिवो योनेर्
गात्राद् गात्रात् समाशृतम् ।
रेतो देवस्य देवस्य
त्सरौ पर्णम् इवा धाम् ॥ (tsaru Mehendale, Henning Mem. Vol.)

०३ विष्णुर् योनिं कल्पयतु

विश्वास-प्रस्तुतिः ...{Loading}...

विष्णुर् योनिं कल्पयतु
त्वष्टा रुपाणि पिंशतु ।
आ सिञ्चतु प्रजापतिर्
धाता गर्भं दधातु ते ॥

०४ गर्भं धेहि सिनीवालि

विश्वास-प्रस्तुतिः ...{Loading}...

गर्भं धेहि सिनीवालि
गर्भं धेहि सरस्वति ।
गर्भं युवम् अश्विनास्यामा
धत्तं पुष्करस्रजा ॥

०५ गर्भं ते राजा

विश्वास-प्रस्तुतिः ...{Loading}...

गर्भं ते राजा वरुणो
गर्भं देवो बृहस्पतिः ।
गर्भं त इन्द्रश् चाग्निश् च
गर्भं धाता दधातु ते ॥

०६ गर्भो अस्य् ओषधीनाम्

विश्वास-प्रस्तुतिः ...{Loading}...

गर्भो अस्य् ओषधीनां
गर्भो वनस्पतीनाम् ।
गर्भो विश्वस्य भूतस्य
सो अग्ने गर्भम् एह धाः ॥

०७ येनौषधयो गर्भिनीः पशवो

विश्वास-प्रस्तुतिः ...{Loading}...

येनौषधयो गर्भिनीः
पशवो येन गर्भिनः ।
तेषां गर्भस्य यो गर्भस्
तेन त्वं गर्भिणी भव ॥

०८ वि ते ग्रन्थिम्

विश्वास-प्रस्तुतिः ...{Loading}...

वि ते ग्रन्थिं चृतामसि
धाता गर्भं दधातु ते ।
आ योनिं पुत्रो रोहतु
जननं प्रति जायताम् ॥

०९ जनिष्ट हि महिया

विश्वास-प्रस्तुतिः ...{Loading}...

जनिष्ट हि महिया
आ योनिं सम् इहासरत् ।
अथा सोम इव भक्षणम्
आ गर्भः सीदत्व् ऋत्वियम् ॥

१० धातः श्रेष्ठेन रूपेण

विश्वास-प्रस्तुतिः ...{Loading}...

धातः श्रेष्ठेन रूपेण-
-अस्या नार्या गवीन्योः ।
पुमांसं पुत्रम् आ धेहि
दशमे मासि सूतवे ॥