सर्वाष् टीकाः ...{Loading}...
०१ तक्मन् भ्रात्रा बलासेन
विश्वास-प्रस्तुतिः ...{Loading}...
तक्मन् भ्रात्रा बलासेन
स्वस्रा कासिकया सह ।
पाम्ना भ्रातृव्येण
नश्येतो मरटाङ् अभि ॥
मूलम् ...{Loading}...
मूलम् (GR)
तक्मन् भ्रात्रा बलासेन
स्वस्रा कासिकया सह ।
पाम्ना भ्रातृव्येण
नश्येतो मरटाङ् अभि ॥
सर्वाष् टीकाः ...{Loading}...
०२ गन्धारिभ्यो मूजवद्भ्यः काशिभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
गन्धारिभ्यो मूजवद्भ्यः
काशिभ्यो मगधेभ्यः ।
जने प्रियम् इव शेवधिं
तक्मानं परि दध्मसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
गन्धारिभ्यो मूजवद्भ्यः
काशिभ्यो मगधेभ्यः ।
जने प्रियम् इव शेवधिं
तक्मानं परि दध्मसि ॥
सर्वाष् टीकाः ...{Loading}...
०३ नार्कविन्दान् नार्विदालान् नान्नदीम्
विश्वास-प्रस्तुतिः ...{Loading}...
नार्कविन्दान् नार्विदालान्
नान्नदीं वर्तकावतीम् ।
व्रतानि तक्मने ब्रूमो
अन्यक्षेत्राणि वा इमाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
नार्कविन्दान् नार्विदालान्
नान्नदीं वर्तकावतीम् ।
व्रतानि तक्मने ब्रूमो
अन्यक्षेत्राणि वा इमाः ॥
सर्वाष् टीकाः ...{Loading}...
०४ अन्यक्षेत्रे न रमते
विश्वास-प्रस्तुतिः ...{Loading}...
अन्यक्षेत्रे न रमते
सहस्राक्षो अमर्त्यः ।
अभूद् उ प्रार्थस् तक्मा
स गमिष्यति बलिहिकाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अन्यक्षेत्रे न रमते
सहस्राक्षो अमर्त्यः ।
अभूद् उ प्रार्थस् तक्मा
स गमिष्यति बलिहिकाम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ अदो गच्छ मूजवतस्
विश्वास-प्रस्तुतिः ...{Loading}...
अदो गच्छ मूजवतस्
ततो वा घ परस्तरम् ।
मा स्मातो अभ्यैर् नः पुनस्
तत् त्वा तक्मन्न् उप ब्रुवे ॥
मूलम् ...{Loading}...
मूलम् (GR)
अदो गच्छ मूजवतस्
ततो वा घ परस्तरम् ।
मा स्मातो अभ्यैर् नः पुनस्
तत् त्वा तक्मन्न् उप ब्रुवे ॥
सर्वाष् टीकाः ...{Loading}...
०६ परस्मैव त्वं चर
विश्वास-प्रस्तुतिः ...{Loading}...
परस्मैव त्वं चर
परमस्यां परावति ।
यथा नो नान्तम् आयसि
यथा नो नाभिशोचया ॥
मूलम् ...{Loading}...
मूलम् (GR)
परस्मैव त्वं चर
परमस्यां परावति ।
यथा नो नान्तम् आयसि
यथा नो नाभिशोचया ॥