०१६

सर्वाष् टीकाः ...{Loading}...

०१ ऊर्ध्वश्रितो वै नामैता

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्ध्वश्रितो वै नामैता आपो यद् ओषधयश् च वनस्पतयश् च
तासाम् अग्निर् अधिपतिः ।
यो वा एता ऊर्ध्वश्रित आपो वेदाग्निम् अधिपतिम् ।
यथैतम् एता ऊर्ध्वा उपतिष्ठन्त्य्
एवैनम् ऊर्ध्वा उप तिष्ठन्त्य्
अधिपतिर् भवति स्वानां चान्येषां च य एवं वेद ॥

०२ प्रस्कद्वरीर् वै नामैता

विश्वास-प्रस्तुतिः ...{Loading}...

प्रस्कद्वरीर् वै नामैता आपो यत् पृष्वास्
तासाम् आदित्यो ऽधिपतिः ।
यो वा एताः प्रस्कद्वरीर् आपो वेदादित्यम् अधिपतिम् ।
यथैता एतस्मिन्न् उद्यति प्रस्कन्दन्त्य्
एवास्मिन्न् आ यति प्रस्कन्दन्त्य्
अधिपतिः (…) ॥ (see 1e)

०३ तक्वरीर् वै नामैता

विश्वास-प्रस्तुतिः ...{Loading}...

तक्वरीर् वै नामैता आपो याः सूदय
तासां पृथिव्य् अधिपत्नी ।
यो वा एतास् तक्वरीर् आपो वेद पृथिवीम् अधिपत्नीम् ।
यथैता एतस्यां प्रणुतास् तकन्तीर् यन्त्य्
एवैनेन द्विषन्तः प्रणुता यन्त्य्
अधिपतिः (…) ॥ (see 1e)

०४ वशिनीर् वै नामैता

विश्वास-प्रस्तुतिः ...{Loading}...

वशिनीर् वै नामैता आपो याः स्यन्दन्ते
तासां वरुणो ऽधिपतिः ।
यो वा एता वशिनीर् आपो वेद वरुणम् अधिपतिम् ।
यथैतम् एतासां स्यन्दमानानां वशम् आदत्त
एवा द्विषतां वशम् आ दत्ते
ऽधिपतिः (…) ॥ (see 1e)

०५ ऊर्जो वै नामैता

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्जो वै नामैता आपो यद् गावस्
तासां त्वष्टाधिपतिः ।
यो वा एता ऊर्ज आपो वेद त्वष्टारम् अधिपतिम् ।
ऊर्जस्वी तेजस्वी भवति
प्र साहस्रान् पशून् आप्नोत्य्
अधिपतिर् भवति (…) ॥ (see 1e)

०६ वर्चो वै नामैता

विश्वास-प्रस्तुतिः ...{Loading}...

वर्चो वै नामैता आपो यद् घृतं
तासां पूषा अधिपतिः ।
यो वा एता वर्च आपो वेद पूषणम् अधिपतिम् ।
वर्चस्वी तेजस्वी भवत्य्
उतास्यानभ्यक्तस्य मुखं रोचते
ऽधिपतिः (…) ॥ (see 1e)

०७ ओजो वै नामैता

विश्वास-प्रस्तुतिः ...{Loading}...

ओजो वै नामैता आपो यन् मधु
तासाम् इन्द्रो ऽधिपतिः ।
यो वा एता ओज आपो वेदेन्द्रम् अधिपतिम् ।
ओजस्वी वीर्यावान् इन्द्रियावी भवति
प्र राजसभायां मधुपर्कम् आप्नोत्य्
अधिपतिः (…) ॥ (see 1e)

०८ उग्रा वै नामैता

विश्वास-प्रस्तुतिः ...{Loading}...

उग्रा वै नामैता आपो यद् ध्रादुनयस्
तासां मरुतो अधिपतयः ।
यो वा एता उग्रा आपो वेद मरुतो ऽधिपतीन् ।
उग्रो बलवान भवति
मारुतं शर्ध इत्य् एनम् आहुर्
अधिपतिः (…) ॥ (see 1e)

०९ महो वै नामैता

विश्वास-प्रस्तुतिः ...{Loading}...

महो वै नामैता आपो यद् वर्षं
तासां पर्जन्यो ऽधिपतिः ।
यो वा एता मह आपो वेद पर्जन्यम् अधिपतिम् ।
महस्वी मित्रबाहो भवत्य्
उतैनेन स्वा नन्दन्त्य् अस्माकम् अयम् इति
तस्मात् सर्वो वृष्टे महीयते
ऽधिपतिः (…) ॥ (see 1e)

१० अतिमन्या वै नामैता

विश्वास-प्रस्तुतिः ...{Loading}...

अतिमन्या वै नामैता आपो यत् सुरा
तसाम् अश्विनाधिपती ।
यो वा एता अतिमन्या आपो वेदाश्विनाधिपती ।
अति मन्यते भ्रातृव्यान् नैनं भ्रातृव्या अति मन्यन्ते
तस्मान् मत्तो मत्तम् अति मन्यते
ऽधिपतिः (…) ॥ (see 1e)

११ परिचितो वै नामैता

विश्वास-प्रस्तुतिः ...{Loading}...

परिचितो वै नामैता आपो याः कर्ष्वां
तासां यमो ऽधिपतिः ।
यो वा एताः परिचित आपो वेद यमम् अधिपतिम् ।
पर्य् एनं स्वाश् च विश्याश् चावश्यन्त्य्
अधिपतिः (…) ॥ (see 1e)

१२ रन्तयो वै नामैता

विश्वास-प्रस्तुतिः ...{Loading}...

रन्तयो वै नामैता आपो य स्त्रियस्
तासां कामो ऽधिपतिः ।
यो वा एता रन्तीर् आपो वेद कामम् अधिपतिम् ।
रमन्ते अस्मिन् रमणीयो भवति काम इव स्त्रीणाम्
अधिपतिः (…) ॥ (see 1e)

१३ विश्वभृतो वै नामैता

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वभृतो वै नामैता आपो यत् पुरुषस्
तासां मृत्युर् अधिपतिः ।
यो वा एता विश्वभृत आपो वेद मृत्युम् अधिपतिम् ।
विश्वस्य भर्ता भवति विश्वम् एनं बिभर्त्य्
आस्य त्रयो ऽग्नयो गृहे धीयन्ते दक्षिणाग्निर् गार्हपत्य आहवनीयः ।
ऐनं चत्वारि वामानि गच्छन्ति निष्कः कंसो ऽश्वतरो हस्त्य्
अधिपतिः (…) ॥ (see 1e)

१४ तासां वा एतासाम्

विश्वास-प्रस्तुतिः ...{Loading}...

तासां वा एतासाम् अपां हिमवान् ऊधः सोमो वत्सः परमेष्ठ्य् अधिपतिः ।
यो वा एतासाम् अपां हिमवन्तम् ऊधः सोमं वत्सं परमेष्ठिनम् अधिपतिं वेद ।
परमेष्ठी भवति गच्छति परमेष्ठिताम्
अधिपतिर् भवति स्वानां चान्येषां च य एवं वेद ॥