०१५

सर्वाष् टीकाः ...{Loading}...

०१ उत्सेध सेध गा

विश्वास-प्रस्तुतिः ...{Loading}...

उत्सेध सेध गा अजन्
विन्देहेरां महस् कृधि ।
मा वो रिषत् कूटग्राहो (Bhatt. riṣāt)
मा व आ शारि लाङ्गलम् ॥

०२ मो अस्माकम् उग्राः

विश्वास-प्रस्तुतिः ...{Loading}...

मो अस्माकम् उग्राः संरब्धास् (Bhatt. mo [’]smākam)
तन्वः किं चनाममत् ।
रायस्पोषं शुनासीरा
अथो सीताभगश् च यः ॥

०३ देष्ट्री समुद्रः सिनीवाली

विश्वास-प्रस्तुतिः ...{Loading}...

देष्ट्री समुद्रः सिनीवाली
कृषिं नो अभि हिन्वत ।
इमा याः पञ्च प्रदिशस्
ता वातो अभि हिन्वत ।
वलीके सत्वताम् इव
तीव्रा वर्षन्तु वृष्टयः ॥

०४ शुनं कीनाशो अन्व्

विश्वास-प्रस्तुतिः ...{Loading}...

शुनं कीनाशो अन्व् एतु वाहाञ्
छुनं फालो विनुदन्न् एतु भूमिम् ।
शुनासीरा हविषा वावृधाना
शुनं धान्यानि कृणुतां युवं नः ॥

०५ या नः पीपरद्

विश्वास-प्रस्तुतिः ...{Loading}...

या नः पीपरद् अश्विना
ज्योतिष्मती तमस् तिरः ।
ताम् अस्मे रासेताम् इषम् ॥