०१४

सर्वाष् टीकाः ...{Loading}...

०१ उद् ईरतां पृथिवी

विश्वास-प्रस्तुतिः ...{Loading}...

उद् ईरतां पृथिवी जीरदानुः
शीत एनाम् अन्तर्वान् अनु वातु वातः ।
ऋत्वियावती पृथिवी प्रति गृह्णातु
बीजं सहस्रवल्लिशं सुरुहारोहयन्ती ॥

०२ इन्द्र एनां हर्यश्वो

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र एनां हर्यश्वो
अग्निर् वा रोहिताश्वः ।
अश्विना रासभाश्वा
कृषिं देवीम् अयूयुजन् ॥

०३ शुनं वरत्राम् आ

विश्वास-प्रस्तुतिः ...{Loading}...

शुनं वरत्राम् आ यच्छ
शुनम् अष्ट्राम् उद् इङ्गय ।
शुनं तोतप्यतां फालः
शुनं वहतु लाङ्गलम् ॥

०४ युनक्तु वाहान् वि

विश्वास-प्रस्तुतिः ...{Loading}...

युनक्तु वाहान् वि युगा तनोत
कृते क्षेत्रे वपतेह बीजम् ।
तथा धाता तथा भगस्
तथा कृणुताम् अश्विना
तथा देवी सरस्वती ॥

०५ सुपिप्पला ओषधयो नाहीना

विश्वास-प्रस्तुतिः ...{Loading}...

सुपिप्पला ओषधयो
नाहीना अपक्षत ।
तद् इन्द्रो वरुणो वायुर्
अश्विनेदं मे प्र तिरता वचः ॥

०६ धाता पूषा बृहस्पतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

धाता पूषा बृहस्पतिर्
भूत्याः सम् अजीगमन् ।
कृषिं देवाः स्वर्विदः ॥

०७ कल्याणी सुभगेव या

विश्वास-प्रस्तुतिः ...{Loading}...

कल्याणी सुभगेव या
संस्थायां वपुषेण्या ।
सा नस् तिराति मधुमन्तम् अंशुम् ॥

०८ अन्नस्य भूमा पुरुषस्य

विश्वास-प्रस्तुतिः ...{Loading}...

अन्नस्य भूमा पुरुषस्य भूमा
भूमा पशूनां त इह श्रयन्ताम् ।
तीव्रा वर्षन्तु वृष्टयो
भूतये महसे वृधे ॥

०९ पिन्वानः पर्जन्यस् तिष्ठतु

विश्वास-प्रस्तुतिः ...{Loading}...

पिन्वानः पर्जन्यस् तिष्ठतु
सह पृष्ठयोद् एति सूर्यः ।
आनन्दं जनयन् यवः
सर्वा अरातीर् अपबाधमानः ॥

१० वि जिहीष्व पृथिवीम्

विश्वास-प्रस्तुतिः ...{Loading}...

वि जिहीष्व पृथिवीम् अह्युर्
वि पक्षम् ऋद्वी भव ।
भद्रं रोहतु धान्यम् ॥