०१२

सर्वाष् टीकाः ...{Loading}...

०१ शतकाण्डो दुश्च्यवनः सहस्रपर्ण

विश्वास-प्रस्तुतिः ...{Loading}...

शतकाण्डो दुश्च्यवनः
सहस्रपर्ण उत्तिरः ।
दर्भो य उग्र ओषधिस्
तं ते बध्नाम्य् आयुषे ॥

०२ नास्य केशान् प्र

विश्वास-प्रस्तुतिः ...{Loading}...

नास्य केशान् प्र वपन्ति
नोरसि ताडम् आ घ्नते ।
यस्मा अच्छिन्नपर्णेन
दर्भेण शर्म यच्छति ॥

०३ दिवि ते तूलम्

विश्वास-प्रस्तुतिः ...{Loading}...

दिवि ते तूलम् ओषधे
पृथिव्याम् असि निष्ठितः ।
त्वया सहस्रकाण्डेन
आयुष् प्र वर्धयामहे ॥

०४ तिस्रो दिवो अत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

तिस्रो दिवो अत्य् अतृणस्
तिस्र इमाः पृथिवीर् उत ।
तयाहं सर्वान् दुर्हार्दो
जिह्वां नि तृणद्मि वचांसि च ॥

०५ त्वम् असि सहमानो

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम् असि सहमानो
अहम् अस्मि सहस्वान् ।
उभौ सहस्वन्तौ भूत्वा
सपत्नान् सहिषीवहि ॥

०६ सहस्व नो अभिमातिम्

विश्वास-प्रस्तुतिः ...{Loading}...

सहस्व नो अभिमातिं
सहस्व पृतनायतः ।
सहस्व सर्वान् दुर्हार्दः +++(Bhatt. sarvāṃ durhārdo)+++
सुहार्दो मे बहून् कृधि ॥

०७ दर्भेण देवजातेन दिविष्टम्भेन

विश्वास-प्रस्तुतिः ...{Loading}...

दर्भेण देवजातेन
दिविष्टम्भेन शश्वद् इत् ।
तेनाहं सस्वतो जनाँ
असनं सनवानि च ॥

०८ प्रियं मा दर्भम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रियं मा दर्भं कृणु ब्रह्मराजन्याभ्यां
शूद्राय चार्याय च ।
यस्मै च कामयामहे
सर्वस्मै च विपश्यते ॥

०९ यो जायमानः पृथिवीम्

विश्वास-प्रस्तुतिः ...{Loading}...

यो जायमानः पृथिवीम् अदृंहद्
यो अस्तभ्नाद् अन्तरिक्षं दिवं च ।
यं बिभ्रतं ननु पाप्मा विवेद
स नो ऽयं दर्भो धरुणो दिवा कः ॥

१० सपत्नहा शतकाण्डः सहस्वान्

विश्वास-प्रस्तुतिः ...{Loading}...

सपत्नहा शतकाण्डः सहस्वान्
ओषधीनां प्रथमः सं बभूव ।
स नो ऽयं दर्भः परि पातु विश्वतस्
तेन साक्षीय पृतनाः पृतन्यतः ॥