०१०

सर्वाष् टीकाः ...{Loading}...

०१ सप्तैतं सप्त ऋषयः

विश्वास-प्रस्तुतिः ...{Loading}...

सप्तैतं सप्त ऋषयः
शल्यकर्ता द्वादश ।
आविद्धं शल्यं चाक्रतुर्
इन्द्रराशिं महोदरम् ॥

०२ इन्द्रराशिं मित्रावरुणाव् आविद्धम्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रराशिं मित्रावरुणाव्
आविद्धं निर् अकृन्ततम् ।
प्रसूतम् इन्द्रेणोग्रेण +++(Bhatt. -greṇo (misprint))+++
ब्राह्मणानाम् असत् पितुः ॥

०३ नैनम् अश्नीयाद् अब्राह्मणो

विश्वास-प्रस्तुतिः ...{Loading}...

नैनम् अश्नीयाद् अब्राह्मणो
न गृहान् प्र हरेत् स्वान् ।
तृष्टं विषम् इव तैमातम्
इन्द्रराशिः खले शये ॥

०४ अयं शये तन्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं शये तन्वं रक्षमाणो
यो अश्नात्य् अविचक्षाण एतम् ।
मध्ये खलस्य निर्मित
इन्द्रराशिर् महोदरः ॥

०५ उतैष यक्ष्मं भवति

विश्वास-प्रस्तुतिः ...{Loading}...

उतैष यक्ष्मं भवति-
-इन्द्रराशिर् महोदरः ।
भीमो अन्नस्य संकाशे
अश्व इवात्ति शिनी नडम् ॥

०६ य इन्द्रराशिं निर्वपाद्

विश्वास-प्रस्तुतिः ...{Loading}...

य इन्द्रराशिं निर्वपाद्
वर्धयात् खलमान्याः ।
स्फातिं च खल्यां गृह्णातु
गवां च बहु पुष्यतु ॥

०७ यम् उवाह शुनःशेपो

विश्वास-प्रस्तुतिः ...{Loading}...

यम् उवाह शुनःशेपो
यम् इन्द्रो ब्रह्मणस्पतिः ।
तं चक्रुः शिवम् अस्मभ्यं
ऋषयो जीवनाय कम् ॥

०८ तृढं शाकं तम्

विश्वास-प्रस्तुतिः ...{Loading}...

तृढं शाकं तम् अशयद्
दत्तम् आसीच् छ्वापदम् ।
पन्द्रा स्म रुप्यन्तः शेरे
य आदन्वहुतं हविः ॥

०९ अनडुहां पृश्निशफानां वहताम्

विश्वास-प्रस्तुतिः ...{Loading}...

अनडुहां पृश्निशफानां
वहतां वहरापिणाम् ।
कीनाशस्य श्रमात् स्वेदाद्
इन्द्रराशिर् अजायत ॥

१० यत् किनाशस्य स्वेद

विश्वास-प्रस्तुतिः ...{Loading}...

यत् किनाशस्य स्वेद एति
संतप्तस् तन्वस् परि ।
अपां गाव इव तृष्यन्तीर्
इन्द्रराशिं सो अश्नुते ॥