००९

सर्वाष् टीकाः ...{Loading}...

०१ कालाद् आपः सम्

विश्वास-प्रस्तुतिः ...{Loading}...

कालाद् आपः सम् अभवन्
कालाद् ब्रह्म तपो दिशः ।
कालेनोद् एति सूर्यः
काले नि विशते पुनः ॥

०२ कालेन वातः पवते

विश्वास-प्रस्तुतिः ...{Loading}...

कालेन वातः पवते
कालेन पृथिवी मही
द्यौर् मही काल आहिता ।
कालो ह भूतं भव्यं च
पुत्रो अजनयत् पुरः ॥

०३ कालाद् ऋचः सम्

विश्वास-प्रस्तुतिः ...{Loading}...

कालाद् ऋचः सम् अभवन्
यजुष् कालाद् अजायत ।
कालो यज्ञं सम् ऐरयद्
देवेभ्यो भागम् अक्षितम् ॥

०४ काले गन्धर्वाप्सरसः काले

विश्वास-प्रस्तुतिः ...{Loading}...

काले गन्धर्वाप्सरसः
काले लोकाः समाहिताः ।
काले ऽयम् अङ्गिरा देवो
अथर्वा चाधि तिष्ठतः ॥

०५ इमं च लोकम्

विश्वास-प्रस्तुतिः ...{Loading}...

इमं च लोकं परमं च लोकं
पुण्यांश् च लोकान् विधृतीश् च पुण्याः ।
सर्वाꣳल् लोकान् अभिजित्य ब्रह्मणा
कालः स ईयते परमो नु देवः ॥