००८

सर्वाष् टीकाः ...{Loading}...

०१ कालो अश्वो वहति

विश्वास-प्रस्तुतिः ...{Loading}...

कालो अश्वो वहति सप्तरश्मिः
सहस्राक्षो अजरो भूरिरेताः ।
ताम् आ रोहन्ति कवयो विपश्चितस्
तस्य चक्रा भुवनानि विश्वा ॥

०२ सप्त चक्रान् वहति

विश्वास-प्रस्तुतिः ...{Loading}...

सप्त चक्रान् वहति काल एष
सप्तास्य नाभीर् अमृतं न्व् अक्षः ।
स इमा विश्वा भुवनान्य् अञ्जन्
कालः स ईयते प्रथमो नु देवः ॥

०३ पूर्णः कुम्भो अधि

विश्वास-प्रस्तुतिः ...{Loading}...

पूर्णः कुम्भो अधि काल आहितस्
तं वै पश्यामो बहुधा नु सन्तम् ।
स इमा विश्वा भुवनानि प्रत्यङ्
कालं तम् आहुः परमे व्योमन् ॥

०४ स एव सन्

विश्वास-प्रस्तुतिः ...{Loading}...

स एव सन् भुवनान्य् आभरत्
स एव सन् भुवनानि पर्य् ऐत् ।
पिता सन्न् अभवत् पुत्र एषां
तस्माद् वै नान्यत् परम् अस्ति तेजः ॥

०५ कालो ऽमूं दिवम्

विश्वास-प्रस्तुतिः ...{Loading}...

कालो ऽमूं दिवम् अजनयत्
कल इमां पृथिवीम् उत ।
कालेन भूतं भव्यं च-
-इषितं ह वि तिष्ठते ॥

०६ कालो भूतिम् असृजत्

विश्वास-प्रस्तुतिः ...{Loading}...

कालो भूतिम् असृजत्
कले तपति सूर्यः ।
कालो ह विश्वा भूतानि
काले चक्षुर् वि पश्यति ॥

०७ काले मनः काले

विश्वास-प्रस्तुतिः ...{Loading}...

काले मनः काले प्राणः
काले नाम समाहितम् ।
कालेन सर्वा नन्दन्त्य्
आगतेन प्रजा इमाः ॥

०८ काले तपः काले

विश्वास-प्रस्तुतिः ...{Loading}...

काले तपः काले ज्येष्ठं
काले ब्रह्म समाहितम् ।
कालो ह सर्वस्येश्वरो
यः पितासीत् प्रजापतेः ॥

०९ तेनेषितं तेन जातम्

विश्वास-प्रस्तुतिः ...{Loading}...

तेनेषितं तेन जातं
तद् उ तस्मिन् प्रतिष्ठितम् ।
कालो ह ब्रह्म भूत्वा
बिभर्ति परमेष्ठिनम् ॥

१० कालः प्रजाम् असृजत

विश्वास-प्रस्तुतिः ...{Loading}...

कालः प्रजाम् असृजत
कालो अग्रे प्रजापतिम् ।
स्वयम्भूः कश्यपः कालात्
तपः कालाद् अजायत ॥