००६

सर्वाष् टीकाः ...{Loading}...

०१ या जाता ओषधयो

विश्वास-प्रस्तुतिः ...{Loading}...

या जाता ओषधयो
देवेभ्यस् त्रियुगं पुरा ।
मन्ये नु बभ्रूणाम् अहं
शतं धामानि सप्त च ॥

०२ शतं वो अम्ब

विश्वास-प्रस्तुतिः ...{Loading}...

शतं वो अम्ब धामानि
सहस्रम् उत वो रुहः ।
अधा शतकृत्वो यूयम्
इमं मे अगदं कृत ॥

०३ पुष्पवतीः प्रसूमतीः फलिनीर्

विश्वास-प्रस्तुतिः ...{Loading}...

पुष्पवतीः प्रसूमतीः
फलिनीर् अफला उत ।
अश्वा इव स्थ जित्वरीर्
वीरुधः पारयिष्णवः ॥

०४ ओषधीर् इति मातरो

विश्वास-प्रस्तुतिः ...{Loading}...

ओषधीर् इति मातरो
यद् वो देवीर् उपब्रुवे ।
रपांसि विघ्नतीर् इत
रक्षश् चातयमानाः ॥

०५ निष्कृतिर् नाम वो

विश्वास-प्रस्तुतिः ...{Loading}...

निष्कृतिर् नाम वो माता
निष्कृतिर् नाम वः पिता ।
सराः पतत्रिणी स्थ
यद् आमयति निष्कृतिः ॥

०६ अश्वत्थे वो निषदनम्

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वत्थे वो निषदनं
पर्णे वो वसतिष् कृता ।
गोभाज इत् किलासथ
यत् सनवथ पुरुषम् ॥

०७ यद् अहं वाजयन्न्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अहं वाजयन्न् इमा
ओषधीर् हस्त आदधे ।
आत्म यक्ष्मस्य नश्यतु
पुरा जीवगृभो यथा ॥

०८ उच् छुष्मा ओषधीनाम्

विश्वास-प्रस्तुतिः ...{Loading}...

उच् छुष्मा ओषधीनां
गावो गोष्ठाद् इवेरते ।
धनं सनिष्यन्तीनाम्
आत्मानं तव पूरुषः ॥

०९ यद् ओषधयः समग्मत

विश्वास-प्रस्तुतिः ...{Loading}...

यद् ओषधयः समग्मत
राजानः समिताव् इव ।
विप्रः स उच्यते भिषग्
रक्षोहामीवचातनः ॥

१० अश्वावतीं सोमावतीम् ऊर्जयन्तीम्

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वावतीं सोमावतीम्
ऊर्जयन्तीम् उदोजसम् ।
आवित्सि सर्वा ओषधीर्
इतो मा पारयान् इति ॥