००५

सर्वाष् टीकाः ...{Loading}...

०१ प्रति गृहाण पृथिवी

विश्वास-प्रस्तुतिः ...{Loading}...

प्रति गृहाण पृथिवी नीतम्
एतद् आज्यस्य मथितं शरीरम् ।
इमां धेनुम् अस्य दातुस्
त्वं रक्ष बर्हिष्य् आ यथासत् ॥

०२ उत त्वाहुर् वरुणस्य

विश्वास-प्रस्तुतिः ...{Loading}...

उत त्वाहुर् वरुणस्य पत्नीम्
अथो त्वाहुर् अदितिं विश्वरूपाम् ।
अधि जरायुम् आघारे हव्यवाहम्
अग्नाव् अस्या महिमानं जुहोमि ॥

०३ स साहस्रं तन्तुम्

विश्वास-प्रस्तुतिः ...{Loading}...

स साहस्रं तन्तुम् अन्व् आ ततान
सो अग्निष्टोमान् दशतं सम् आप । (Bhatt. -ṣṭomāṃ)
अधिजरायुं सवत्सां यो ददाति
तं वै देवाः स्वर् आ रोहयन्ति ॥

०४ अधिजरायुः स्वर् आ

विश्वास-प्रस्तुतिः ...{Loading}...

अधिजरायुः स्वर् आ रोहयन्त्य्
अनेन दत्ता सुदुघा वयोधाः ।
सास्मै दुहां शतधारम् अक्षितं
यम् अस्य लोके परमे व्योमन् ॥

०५ पूर्ववत्सेन सह वत्सिनी

विश्वास-प्रस्तुतिः ...{Loading}...

पूर्ववत्सेन सह वत्सिनी गौर्
यो ऽस्या वत्सो अपरो जरायु तत् ।
तृतीयं मांसं परिनिर्मितं
यत् तस्माद् देवा अधिजरायुम् आहुः ॥

०६ आ धावय शवसा

विश्वास-प्रस्तुतिः ...{Loading}...

आ धावय शवसा वावृधान-
-उत्तराव श्रव आधेह्य् अस्मै ।
इमम् इन्द्र महतामेन रक्ष
सं प्रजया तन्वा सं बलेन ॥

०७ दुर्वेदावस्ताद् बहुधा परस्ताद्

विश्वास-प्रस्तुतिः ...{Loading}...

दुर्वेदावस्ताद् बहुधा परस्ताद्
विश्वे देवाः प्रति पश्यन्त्य् आयतीम् ।
या भद्रा या सर्वतः समीची
सेद् आहुतिर् भवतु मे तराज्या ॥

०८ गृष्टिं धेनुम् अधिजरायुम्

विश्वास-प्रस्तुतिः ...{Loading}...

गृष्टिं धेनुम् अधिजरायुं स्वधां
कृण्वानः प्र ददाति ब्रह्मणे ।
सास्मै दुहां शतधारम् अक्षितम्
अमुष्मिꣳल् लोके युग उत्तरस्मिन् ॥

०९ वत्सं जरायु प्रतिधुक्

विश्वास-प्रस्तुतिः ...{Loading}...

वत्सं जरायु प्रतिधुक् पीयूषं
यो नो ददाति सुदुघामधेनुम् ।
तस्य देवाः प्र तिरन्त्व् आयुः
स आ रोहतु सुकृताम् उलोकम् ॥

१० परिवालाम् अधिजरायुं युधा

विश्वास-प्रस्तुतिः ...{Loading}...

परिवालाम् अधिजरायुं युधा
जीवो अददाग्र एताम् ।
स्योना नः शग्मा शिवा विशेह
मा नो हिंसीर् हरसा दैव्येन ॥

११ भद्रकृतं सुकृतमादु शम्भुवम्

विश्वास-प्रस्तुतिः ...{Loading}...

भद्रकृतं सुकृतमादु शंभुवम्
अरं भुवं प्रति गृह्णाम्य् आयतीम् ।
घृतश्रियं नभसी संवसानां
देवान् मनुष्याꣳ असुरान् उतर्षीन् ॥

१२ पञ्च देवाः प्र

विश्वास-प्रस्तुतिः ...{Loading}...

पञ्च देवाः प्र पिबन्त एताम्
इन्द्रस् त्वष्टा वरुणो मित्रो अग्निः ।
ते सर्वे सम् अदुर् मह्यम् एतां
तयेह जीवन् प्र तिरस्वायुः ॥

१३ कश्यपो ऽयं जमदग्निर्

विश्वास-प्रस्तुतिः ...{Loading}...

कश्यपो ऽयं जमदग्निर् वसिष्ठ
ऋषयो नः ससनुर् अग्र एताम् ।
भरद्वाजो गोतमो अत्रिर् नः स्योनां
विश्वामित्रो ददुषः प्र तिरात्य् आयुः ॥

१४ ऊर्जं देवेभ्यः सुभग

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्जं देवेभ्यः सुभग
ऊर्जं मनुष्येभ्यः ।
ऊर्जं पितृभ्यो अघ्न्य
ऊर्जा ददत मा विश ॥