००४

सर्वाष् टीकाः ...{Loading}...

०१ इन्द्रस्य नाम गृह्णन्त

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रस्य नाम गृह्णन्त
ऋषयो जङ्गिडं ददुः ।
देवा यं चक्रुर् भेषजम्
अग्रे विष्कन्धदूषणम् ॥

०२ स नो रक्षतु

विश्वास-प्रस्तुतिः ...{Loading}...

स नो रक्षतु जङ्गिडो
धनपालो धनेव ।
देवा यं चक्रुर् ब्राह्मणाः
परिपाणम् अरातिहम् ॥

०३ दुर्हार्दसं घोरचक्षुं पापकृत्वानम्

विश्वास-प्रस्तुतिः ...{Loading}...

दुर्हार्दसं घोरचक्षुं
पापकृत्वानम् आगतम् ।
तांस् त्वं सहस्रचक्षो
प्रतीबोधेन नाशय
परिपानो ऽसि जङ्गिदः ॥

०४ परि मा दिवः

विश्वास-प्रस्तुतिः ...{Loading}...

परि मा दिवः परि मा पृथिव्याः
पर्य् अन्तरिक्षात् परि मा वीरुद्भ्यः ।
परि मा भूतात् परि मोत भव्याद्
दिशो दिशो जङ्गिडः पात्व् अस्मान् ॥

०५ य ऋष्णवो देवकृता

विश्वास-प्रस्तुतिः ...{Loading}...

य ऋष्णवो देवकृता
य उचो बभृते न्याः ।
सर्वांस् तान् विश्वभेषजो
अरसान् जङ्गिडस् करत् ॥